पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रशस्तब्राह्मञनिरूपणम् । अपरिणतवयसः= नातिस्थविरान्, अविकर्म स्थान् = प्रतिषिद्धक्रियावर्ज कानू । अनन्तेवासिनः = सेवकभिन्नान् । कात्यायनः | स्नातकानिति, एके यतीन्, गृहस्थान साधून् वा, श्रोत्रियान्, वृद्धाननवद्यान्, स्वकर्मस्थांश्च | कव्यं च प्रशान्तेभ्यः प्रदीयत इति । स्नातक स्त्रिविधाः । तथा च यमः - वेदविद्याव्रतस्त्राताः श्रोत्रिया वेदपारगाः | तेभ्यो हृव्य च कव्यं च प्रशान्तेभ्यः प्रदीयते ॥ इति । वेदमात्रमधीत्य स्नातो वेदनातः | वेदार्थविचार समाप्य स्त्रातो विद्यास्नातः । व्रतानि समाप्य स्नातो व्रतस्नात इति । कात्यायनोऽपि । त्रयः स्नातका भवन्ति विद्यास्नातको व्रतस्नातको विद्यावतस्नात क इति । समाप्य वेदं असमान्य व्रतं यः समावर्तते स विद्यास्नातकः । समाप्य व्रतमसमाप्य वेद यः समावर्तते स व्रतस्नातकः । उभयं स माध्य यः समावर्तते स विद्यावतस्नातक इति । वृद्धो= विद्यातपोभ्यां श्रेष्ठः न तु वयसा, युवभ्यो दानमित्याधुक्तेः । अवयं दोषः स स्वतः पितृ भ्यो मातृतश्च येषां नास्ति ते तथा । ये मातृतः पितृतश्चेत्याश्वलायनोक्तेः । स्ववर्णाश्रमविहित कर्मनिरताः स्वकर्मस्थाः । आपस्तम्बः, शुचीन् मन्त्रवतो विप्रान् सर्वकृत्येषु भोजयेत् । यंतेन भोजयेत् श्राद्धे बहुवचं वेदपारगम् | शाखान्तगम थाध्वर्यु छन्दोगं वा (१) समाप्तिगम् ॥ इति । ( अ० ३ श्लो० १४५ ) बचम् = ऋग्वेदिनम् | अध्वर्यु = यजुर्वेदिनम् | वेदपारगशाखान्त गसमाप्तिगशब्दैः सम्पूर्णशास्त्राध्यायिन उच्यन्ते । बृहस्पतिः, मनु, यद्येकं भोजयेत् श्राद्धे छन्दोगं तत्र भोजयेत् । ऋचो यजूंषि सामानि त्रितयं तत्र विद्यते ॥ ( १ ) समाप्तिकमिति मुद्रितपुस्तके पाठः ।