पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- अत्राग्निपाकादनीयात्फलादन्यत् फलम् तस्य तु कटूष्णस्यैव स्वादुत्वान्तादृशस्यैव दानमिति हेमाद्रिः । फलामेत्युपलक्षणं अपक्वकन्दमूलफलादीनाम् । अत एव । कौर्मे, उष्णमक्षं द्विजातिभ्योदातव्यं श्रेय इच्छता । अन्यत्र फलमूलेभ्यः पान केभ्यस्तथैव च । वायुपुराणे, घृतेन भोजयेत् विप्रान् घृतं भूमौ समुत्सृजेत् । शर्करा: क्षीरसंयुक्ताः पृथुका नित्यमक्षयाः ॥ स्युश्च सवत्सरं प्रीता वर्करैर्मेषकैणकैः । सक्तून लाजांस्तथा पूपान् कुल्माषान् व्यञ्जनैः सह ॥ सर्पि: स्रिग्धानि सर्वाणि दग्धा संस्कृतभोजयेत् । भाद्धे श्वेतानि योदद्यात् पितरः प्रीणयन्ति तम् । घृतं भूमौ समुत्सृजेदित्यस्यायमर्थः तथा घृतं परिवेष्यं यथा पात्रमापूर्ण भूमावुपसर्पति । वर्करैः = स्तरुणैः । दवेलः, भोजनैः सतिलैः स्नेहैर्भक्ष्यैः पूपविमिश्रितैः । मैत्रायणीये, तिलवन्मधुमच्चानं सामिषं दद्यात् । पिप्पल्यादयः । प्रभूतमन्नमिष्टं दद्यात् । कार्णाजिनिः, यदिष्टं जीवतोस्यासीत्तद्द्यात् तस्य यत्नतः । अथवर्ज्यान्यन्नानि । साधायनि:, वर्ज्यमनं त्रिधा प्रोक आद्यमाभयगर्हितम् । जातितोगर्हितं यच्च यच भावादिदूषितम् || अभोज्यानं विजानीयात् अन्नमाश्रयगर्हितम् । लशुनादिकमनं यत् शेयं जातिविगर्हितम् || दुष्टं भावक्रियावस्थासंसर्गैस्तु तृतीयकम् । अभोज्यान्नं = अभोज्यानानं त्रिविधमपि चाहिक उक्तम् । गोभिलः, अतिशुतोप्रलवणं विरसं भावदूषितम् । राजसं तामसञ्चैष हव्ये कन्ये च बर्जयेत् ॥