पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कालविशेषावच्छेदेन तृप्तिकरपदार्थानिर्णः । प्रकृतित्ववत् द्विजातिकर्तृकश्राद्धे ब्राह्मणभोजनसाधनीभूतान्नप्रकृतित्वमेव | आमश्राद्धे तु वचनात् साक्षात् प्रदेयता । अत्र च कृशरादीनां सम्भवत समुच्चयः, भोजनलाघनत्वेन लोके तथैवावगतत्वात्। । देवलः, ततोऽन्नं बहु संस्कारनैकव्यञ्जनभक्ष्यवत् । चोग्यपेयसमृद्धं च यथाशक्युपकल्पयेत् ॥ सस्कारा=मरिचादयः । व्यञ्जनं = सूपादि । दन्तैरवखण्ड्य यद्भक्ष्यते तद् भक्ष्यम् | चोष्यम्=इक्षुखण्डादिक । पेयं=पानकादि । ब्रह्मपुराणे-- गुडशर्करमत्स्यण्डी देयं फाणितमुर्मुरम् । गव्यं पयोदधि घृतं तैलं च तिलसम्भवम् ॥ शर्करामेदो=मत्स्यण्डी | ईषत् कथितस्येक्षुरसस्य द्रव एव विकार: फाणितम् । गुडमरिचैलामिश्रोगोधूमस्थूल चूर्णविकारो मुर्मुरुः । तैलस्य विधिपादौ शाकपाकार्ये अभ्यङ्गादौ च श्रेयः ॥ तथा, पायसं शालिमुद्राचं मोदकादींश्च भक्तितः । पूरिकां च रसालां च गोक्षीरं च नियोजयेत् ।। यानि चाभ्यवहार्याणि स्वादुस्निग्धानि भोद्विजाः । ईषदुष्णकटून्येव देयानि श्राद्धकर्मणि ॥ मोदको=लडकः । कूर्मपुराणे, वायुपुराणे, सौरपुराणे, लाजान् मधुयुतान दद्यात् सक्तून् शर्करया सह। दद्याच्छ्राद्धे प्रयत्नेन शृङ्गाटकबिले तथा ॥ भक्ष्यान् वक्ष्ये करम्भञ्च इष्टका घृतपूरिका । कृशरं मधुसर्पिश्च पयः पायसमेव च ॥ स्निग्ध उष्णञ्च योदद्यात् अनिष्टोमफलं लभेत् । इष्टका = इष्टकाक्कतिः खण्डेष्टकाख्योभक्ष्यविशेषः ॥ विविधं पायसं दद्यात् भक्ष्याणि विविधानि च । लेखं चोष्यं यथाकाममुष्णमेव फलं विना ॥ विविधान्यपि मांसानि पितॄणां पितृपूर्वकम् |