पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- माहिषं दश मासांस्तु गवय रुद्रसम्मितान् । गव्यं द्वादशमासांस्तु पयः पायसमेव च ॥ वाणसस्य मांसेन तृप्तिर्वादशवार्षिकी । आनन्त्याय भवेदन्तं खड्गमांसं पितृक्षये ॥ पितृक्षयोगया ज्ञेया तत्र दत्तं महाफलम् । कालशाकश्च खड्गश्च लोहछागस्तथैव च ॥ महाशकलमत्स्याश्च पित्र्येऽनन्त्याय कल्पिताः । यत् किञ्चिन्मधुसंयुक्तं तदानन्त्याय कल्पते ॥ उपाकृतन्तु विधिना मन्त्रेणानं तथा कृतम् | गवयोगो सहशः पशुः तस्य मांसं गावयम् । नागरखण्डे, अप्राप्तौ खड्गमांखस्ध तथा वाणसस्य वा । मधुना सह दातव्यं पायसं पितृतृप्तये। तेनापि वार्षिकी तृप्तिः पितृणाञ्चोपजायते । अभावे चापि तस्यापि शिशुमारसमुद्भवम् ॥ मांसं तु तृप्तये प्रोक्तं वत्सरं मांसवर्जितम् । तद्भावे वराहोत्थं दशमासप्रतुष्टिदम् || आरण्यमाहिषोत्थेन तृप्तिः स्यानवमासिकी । रुरुश्चैवाट मासान् वै पणे स्यात् सप्तमासिकी ॥ छागस्य मासषट्कन्तु शशकस्य च पञ्च वै 1 चतुरः शल्यकस्योक्तास्त्रयोविष्किरिकस्य च ॥ मासद्वयस्य मत्स्यस्य मांसं कापिञ्जलस्य च । नान्येषां योजयेन्मांसं पितृकार्ये कथञ्चन ॥ एतेषामपि चाभावे पायसेन नराधिप । अथान्नानि, प्रचेताः । पायसतिलकृशरब्रह्म सुवर्चलाहरितमुद्रकृष्णमाषश्या. माकप्रियङ्ग्यवगोधूमेक्षुविकारान् दद्यात् । पाय= पयलिसिद्ध ओ. दनः । तिलतण्डुसिद्धओदनः कृशरम् | ब्रह्मसुवर्चला=आदित्यभक्ता। विकारशब्दःप्रत्येकं सम्बध्यते । इदशोपलक्षणं तेन यावद्विहितं द्रव्यं तस्य सर्वस्य विकारान् दधादित्यर्थः । अत्र विकारपदश्रवणान गोधूमवीहियवादीनां साक्षात् प्रदेयत्वं किन्तु श्रीहीणां पुराडाश.