पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कालविशेषावच्छेदेनतृप्तिकरपदार्थनिर्णयः । राजानुत्यादितं यच्च व्याधिनाभिहताच्च यत् ॥ अप्रोक्षितं = प्रोक्षणादिरहितम् । राजानुत्पादितं मृगव्येन स्वयमनुत्पादितं वर्जयेत् । व्याधिनाभिहतात् पशोर्यत् गृहीतं तदपि वर्जयेत् इत्यर्थः । अयं च अप्रोक्षितनिषेधोग्राम्यपशुविषयः आरण्यास्तु प्रोक्षणमन्तरेणापि प्रशस्ता एवेति ब्रह्मपुराणे | आरण्यानां तु सर्वेषां प्रोक्षणं ब्रह्मणा कृतम् । अत एव तु ते भक्ष्या ब्राह्मणक्षत्रियादिभिः ॥ हारीतः, क्षत्रियैस्तु मृगव्येन विधिना समुपार्जितम् । श्राद्धकाले प्रशंसन्ति सिंहव्याघ्रहतं च यत् ।। ( अ० ५ श्लो० ३२) क्रीत्वा स्वय वाप्युत्पाद्य परोपहृतमेव च । देवान् पितृश्चार्चयित्वा खादन् मांसं न दुष्यति ॥ अतश्च ग्राम्याणा प्रोक्षणादि कृत्वैवालम्भनम् । आरण्यानां तु प्रोक्षणादिसंस्कारमन्तरेणैव क्षत्रियादिना स्वयं परेण वा हर्ता क्रि यादिभिः सम्पाद्य मांसं देयम् । मनुः, उशनाः तत्र व्रीहियवैमषैरचिंता मासं पितरस्तृप्ता भवन्ति मासार्द्धं- मात्स्येन, त्रयं हरिणमृगमांसेन, चतुरोमासान् कृष्णसारङ्गेण पञ्च शाकुनेन, षट् छागेन, सप्त पार्षतेन, अष्टौ वराहेण, नव रुरुणा, मेषेण दश, एकादश कूर्मेण, पायसेन पयसा गव्येन सम्वत्सरं, वाणसस्य मांसेन तृप्तिर्द्वादश वार्षिकी । खड्डमांसेन आनन्त्यं अपि चोदाहरन्ति । यमः, खड्गश्च कालशाकं च लोहछागं तथैव च । महाशल्कश्च मध्वनं पित्र्येऽनन्त्याय कल्पते ॥ अद्भिर्मूलफलैः शाकैः पुण्यव्रीहियवैस्तथा । प्रणाति मासं दत्तेन श्रद्धेनेह पितामहान् ॥ मत्स्यैः प्रीणाति द्वौ मासौ त्रीन् मासान् हारिणेन तु । शल्यकचतुरोमासान् रुरुः प्रीणाति पञ्च च ॥ शशः प्रीणाति षण्मासान् कूर्मः प्रीणाति सप्त तु । अष्टौ मासान् वराहस्तु मेषः प्रीणयते नव ॥