पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- वोचैः समोचैलकुचैस्तथा वै बीजपूरकैः । मुञ्जातकैः पद्मफलैर्भक्ष्यभोज्यैस्तु संस्कृतैः । रागखाण्डवचोग्यैश्च त्रिजातकसमन्वितैः । दत्तैस्तु मासं प्रीयन्ते श्रद्धेषु पितरोनृणां । कन्दः=सुरणः । काकोलीक्षीर काकोल्यौ गौडदेशे प्रसिद्धे । सर्षपेति स्त्रीलिङ्गतया निर्देशः छान्दसः । राजशाकं= राजयक्षबाण्यं शाकम् । इदी=तापसतरुः | राजजम्बु =जम्बूविशेषः । मुख्यान्यामलका- नि=स्थूलाम्यामलकानि । फल्गु क्षुद्रामलकम् | विलम्बकानि= पटोलानि । मुञ्जातक-गौडदेशे प्रसिद्धम् । शर्करामध्वादिद्रव्ययोगेन मधुरीकृतारसा रागाः । अम्लसंयोगेन खाण्डवाः | कात्यायनः-- अथ तृप्तिः, ग्राम्यामिरोषधीभिर्मासं तृप्तिरारण्याभिर्वा, तदलाभे मूलफलैरद्भिर्वा सहान्नेनोत्तरास्तर्पयन्ति छागोत्रमेषा आलब्धव्याः । शेषाणि क्रीत्वा लध्वा स्वयं मृतानां वा हृत्य, यवेन मासम्, मालद्वयं, मत्स्येन, त्रीन् मासान् हारिणेन मृगमांसेन, चतुःशाकुनेन, पञ्च रौरवेण, षट् छागेन, सप्त कौर्मेणाष्टौ वाराहेण, नव मेषमांसेन, दश माहिषेणैकादश पार्षतेन, सम्वत्सरं तु गव्येन पयसा पायसेन वा, वार्घ्रीणसस्य मासेन द्वादशवर्षाणि अक्षया तृप्तिः । खङ्गः कालशाकं लोहछागोमधुमहाशलको वर्षांसु मघासु च श्राद्धं हस्तिछायायाम् । अथ तृप्तिरित्यनन्तरं उच्यते इत्यध्याहारः | प्राम्यामिरोषधभिः =यवगोधूमादिभिः सकृद्दत्ताभिर्मास तृप्तिर्भवतीत्यर्थः । सम्पूर्ण तृप्तिपर्याप्तग्राम्यारण्यालाभे मूलफलैरद्भिर्वा मासं तृप्तिः । अत्रादिभिर्मासं तृप्तिमुक्कामांसैर्द्विमासादितृप्तिं वक्तुं तदुपादानविधिमाह छागइत्यादिना | उत्तरा मूलफलादयोऽन्नेन स्वल्पेन सहैव दत्तास्तर्पयन्ति न केवलाः । उनोऽनड्वान् । अन्यौ प्रसिद्धौ | इदं च ग्राम्योपलक्षणम् । ते च प्रोक्षणादिसंस्कारपूर्वकं आलब्धब्याः संज्ञपनीया इत्यर्थः । भारण्यानां पशूनां प्रोक्षणादि संस्कारमन्तरेणापि क्षत्रियादिना स्वयं परेण वा हतानां क्रयाद्युपायसम्पादितं मांसं श्राद्धादौ देयम् । तथा च । पुलस्त्यः, बर्जयेद्दुरतः श्राद्धे यदप्रोक्षितमामिषम् ।