पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भक्ष्याभक्ष्यनिरूपणम् | अतिशुक्तं=द्रव्यान्तरसंसर्गेण कालवशाद्वातिकुत्सितरलम् | उग्रलवणं = अधिकलवणम् । विरसं=अपगतरसम् । भावदूषितम् = कार्पण्यादिभिरन्तःकरणाधिकारैर्दूषितम् । राजसतामसे भगवद्गीतासु - कट्वम्ललवणात्युष्णतीक्ष्णरुक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः । यातयामं गतरसं पूति पर्युषितं च यत् ॥ उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् । हव्ये कव्ये चेति तत्साध्येषु कर्मस्वित्यर्थः । ब्रह्मपुराणे, आसनारूढमनाचं पादोपहतमेव च । अमेध्यादागतैः स्पृष्टं शुक्तं पर्युषितं च यत् ॥ द्विःस्विनं परिदग्धं च तथैवाग्रावलेहितम् । शर्कराकेशपाषाणै: कीटैर्यच्चाप्युपद्रुतम || पिण्याक मथितं चैष तथातिलवणं च यत् । सिद्धाः कृताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः ॥ (१) वाग्भावदुष्टाश्च तथा दुष्टैश्चोपहृता अपि । वायसैश्चोपभुक्तानि वर्ज्यानि श्राद्धकर्मणि ॥ आसनारूढं=भूव्यतिरिक्ताधिकरणस्थापितपात्रस्थितम् | पादोपहृतं = साक्षात् भोजनद्वारा वा पादस्पर्शदूषितम् । द्विःस्विन्न= वारद्वयं पक्कम्, तच्च पक्कस्यौदनादेः शुष्कस्य पुनर्मार्दवायोदकं निनीय पाचितम्, यस्य तु सुरणादेरधिश्रयणद्वयेनैव पाकः प्रसिद्धस्तस्य तु तावदवयव एक एवासौ पाक इति तत्रापि न द्विःपकता इति हेमाद्रि । अप्रावलेहित= अग्रे उपरि भागे मार्जारादिभिरवलीढम् । मथित= आलोडितं दधि । सिद्धाः कृताः = चिरसंस्थिताः पर्यटादयः । वर्ज्यमुदकमुक्तम् ब्रह्माण्डपुराणे - दुर्गन्धि फोनिलं वर्ज्यं तथा वै पल्वलोदकम् । न लभेद्यत्र गौस्तृप्ति नक्तं यचैव गृह्यते ॥ यत्र सर्वार्थमुत्सृष्ट यच्च भोज्यनिपानजम् । तद्वय सलिलं तात सदैव पितृकर्मणि ॥ निपानजं कूपसमुद्घृतपश्वादिपेयोदकधारणार्थजलाशयजम् । इति श्राद्धीयभक्ष्याभक्ष्य निर्णयः ।

( १ ) वाससा चावधूतानीति निर्णयसिन्धौ पाठः । ८ वी० मि०