पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- ग्रहणं तदलाबुपत्रादेः शाकत्वेन प्रतिषेधार्थम् । वृत्ताकं = श्वेतवृन्ताकम् | गृजनं = गाजरमिति प्रसिद्धमिति हेमाद्रिः | काञ्जिकम् = आरनालम् । करञ्जं = चिरबिल्वफलं । "चिरबिल्वोरक्तमाल: करजश्च करञ्जके" इत्यमरेऽभिधानात् । भारद्वाजः, नक्तोद्धृतन्तु यत्तोयं पलवलाम्बु तथैव च । स्वल्पन्तु कूष्माण्डफलं वज्रकन्दश्च पिप्पली ॥ तण्डुलीयकशाकं च माहिषं च पयोदधि | शिम्बिकानि करीराणि कोविदारगवेधुकम् ॥ कुलत्थसणजीराणि करम्भाणि तथैव च । अब्जादन्यद्रक्तपुष्पं शिशुक्षारस्तथैव च ॥ नीरसाण्यपि सर्वाणि भक्ष्यभोज्यानि चैव हि । एतानि नैव देयानि सर्वस्मिन् श्राद्धकर्माणि ॥ नक्कोद्धृतं = रात्रौ जलाशयादुद्धृतम् । स्वल्पमिति पलवल विशेषणम् । एकस्या गोः तृप्तेर्यावत् पर्याप्त जलं तन्न ग्राह्यमित्यर्थः । वज्रकन्दः= आरण्यसुरणः । शिम्बिकानि= शिम्बि संवन्धिधान्यानि प्रतिषिद्धानि । करीराणि = बदराकृतिफलानि । जीरकं= कृष्णजीरकम् । तथा च व्यासः, कृष्णाजाजी विडं चैव शीतपाकी तथैव च । कृष्णाजाजी = कृष्णजीरकम् । विड=लवणम् । शीतपाकी-फाकजङ्घा । करम्भाणि= दधिमिश्राः सक्तव । क्षार=यवक्षारादि । सर्वस्मिन् = नित्यश्राद्धादन्यत्र | 'यदनं पुरुषोभुते तदन्नास्तस्य देवता' इति नित्यश्राद्धं प्रक्रम्य रामायणोक्तेः । सुमन्तुः । बीजपूरकमाषांश्च श्राद्धे न दद्यात् । बीजपुरो = मातुलुङ्गकः । 'फल पूरो बीजपूरो रुचको मातुलुङ्गक' इति अमरसिंह ऽभिधानात् । ब्रह्मपुराणे, फले करुणकाकोले बहुपुत्रार्जुनफिलम् । जम्बीरं रक्तबिल्वञ्च शालस्यापि फलं त्यजेत् ॥ अलाबु: तिक्तपर्णी च कूष्माण्डी कटुपत्रिका | वार्ताकं शिम्बिजातं च लोमशाविर्भटानि च ॥