पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्ण्यमूलफलनिर्णयः । प्रयोगश्‍छान्दसः । शिशुः = शोभाञ्जनः स च श्वेतपुष्पः, रक्तपुष्पस्य सामान्यतः प्रतिषेधेन प्राप्त्यभावादिति हेमाद्रिः । वस्तुतस्तु उभयो रपि ग्रहणं रक्तस्य पुरुषार्थत्वेन पृथक् निषेधौचित्यम् । सर्षपोऽत्र रा. जसर्षपः कृष्णसर्षपापरनामधेयः । 'कुसुम्भं राजसर्षपा' इति स्मृत्य न्तरे वर्ज्यत्वेन तस्यैवाभिधानात्, अतश्च गौरसर्षपोऽत्र ग्राह्य एव । कूष्माण्डम् = कर्कारु | अलाबु-तुम्बफलम् | तच्च वर्तुलम्, 'अलाम्बु व तुलं चे'ति वचनात् । वार्ताकं= क्षुद्रवार्त्ताकीफलम् | पालङ्कया=गन्धद्रव्य. विशेषः । कुसुम्भशब्देन कण्टकिकुसुम्भस्य ग्रहणम् अकण्टकि कुसुम्भस्य सर्वदा प्रतिषेधात् । क्वचितु पिप्पली ससुकभूस्तृणासु रीसर्षपसुरसाकूष्माण्डलाबुवार्ताकपालकपालड्यातण्डुलयिककुसु. म्भपिण्डमूलमहिषीक्षीराणि वर्जयेदिति विष्णुपुराणवचने पाठः | ससु खदिरशाकम् । अत्र वाचस्पति मिश्रस्तम्ब कामेति पाठोलिखितः, बीज- पूरकमिति च व्याख्यातम् । आसुरीसर्षपणे= राजसर्षपः । सुरसा = तुलसी । भक्ष्यत्वेनास्याः प्रतिषेध इति वाचस्पतिमिश्र. । पालाश खदिराश्वत्थतुलसीघातकावटाः । एतान्याहुः पवित्राणि ब्रह्मज्ञा हव्यकव्ययोः ॥ इति पुष्पप्रकरणे देवलोक्तः पुष्पत्वेन तु आदेयैव । सुरसा= निर्गु ण्डीत्यन्ये । द्वारीतः, पाड्यानलिकापोतका शिवार्ताक भूस्तृणकाफल्लमाषमसुरक. तलवणानि च श्राद्धे न दद्यादिति । नालिका=जलोद्भवा शाकत्वेन प्रसिद्धा तमालदला वल्लिः | पोती का= उपोदकी पर पर्याया निद्रातिशयकारिणी शाकत्वेन प्रसिद्धा । काफल्ल:=आरण्यशाकः काश्मीरेषु प्रसिद्धः । उशना: नालिकासणछत्राककुसुम्भालाबुविभवान् । कुम्भीकञ्चुकवृन्ताककोविदाराश्च वर्जयेत् ॥ वर्जयेद् गुञ्जनं श्राद्धे काञ्जिकं पिण्डमुलकम् । करशं येऽपि चान्ये वै रसगन्धोत्कटास्तथा । छत्राकं = शतपुष्पा, वर्षाकालोद्भवं छत्रं वा । विग्रहणं चाप वि त्रभूप्रदेशस्योपलक्षणम् | तेन तदुद्भवं न देयम् | कुम्मी= श्रीपर्णिका । कञ्चुकं वृत्ताका कारमलाबुफलम् । यत्वस्मिन् वाक्ये पृथक् अलाबु.