पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- वांशं करीरं सुरसमर्कजं भूस्तृणानि च । अवेदोक्ताश्च निर्यासा लवणान्यूषणानि च ॥ श्राद्धकर्माणि वर्ज्यानि याश्च भार्या रजस्वलाः ॥ लशुनं गृञ्जन च पलाण्डोरेव भेदौ । उपलक्षण चैतदन्येषां भेदानाम् । लशुनादीनां पुरुषार्थे निषेधे स्थितेऽपि श्राद्धार्थत्वेन पुनः निषेधः | गृजनं = हरिद्रतवर्ण: कन्दः । पिण्डमूलकं=पिण्डाकृतिमूलम् । कलम्बा = वेणुपत्राकृतिपत्रो जलजः शाकः, वर्चुलफला तुम्बी वा । कटुपिप्पलीमरीचयोरार्द्रयोः स्वतन्त्रशाकत्वेन प्रतिषेधः । यत्तु तयोः "पिप्पली मरिचं चे" त्यादिपुराणेऽभ्यनुज्ञानं तच्छाकसंस्कारकत्वेन शुष्कविषय मिति हेमाद्विवाचस्पतिमिश्रादयः । पटोलं लताफल न आरण्यं, लतायां नपुंसकप्रयोगानुपपत्तेः । “पटोलस्तितकः पटुः" इत्यनुशा सने पुंल्लिङ्गप्रयोगात् । वृहतीफलं = क्षुद्र वार्ता कीफलम् | वाशः करीरो=चं शाङ्कुरः । सुरस=निर्गुण्डीफलं पत्रं वा । अर्जकं=श्वेतकुठेरकपत्रम् । भूस्तृण=भूतीकसंज्ञ. शाकभेद: कश्मीरेषु प्रसिद्धः । स्मृतिचन्द्रिका कारस्तु यस्य तले ग्रन्थिस्थानेषु च परिमण्डला अवयवा भवन्ति स भूस्तृणः | अवेदोक्ता इति=वेदाभ्यनुज्ञातनिर्यासव्यतिरिक्तनिर्यांसाः । तथा च-- तैत्तिरीयश्रुतिः, अथो खलु य एव लोहितोयोवा वश्चनान्निर्येषति तस्य नाइयं काममन्यस्येति । ब्रश्चन = छेदः | लोहितो अवश्चनजोऽपि, वश्चनजश्चालोहिनोऽपि । निर्येषति= निर्याति । एव च लोहितनिर्यासाश्च श्राद्धे वर्ज्या इत्यर्थः । लवणानि =कृत्रिमाणि अनिषिद्धानि च प्रत्यक्षाणि । तथा च - विष्णुः, -न प्रत्यक्षं लवणं दद्यात् । सैन्धवमानससम्भवयोस्तु प्रत्यक्षयोरव्यनिषेध उक्तो ब्रह्माण्डे, सैन्धवं लवणं चैव तथा मानससम्भवम् । पवित्रे परमे होते प्रत्यक्षे अपि नित्यशः ॥ ऊषणानि = शाकसस्कारकाणि मरीचाद्यभ्यनुज्ञातवर्जे निषिद्धानि | स्मृति चिन्द्रिकायां तु लवणान्यूषराणि चेति पाठः | लवणानि ऊषराणि तदा ऊबरमृतिकाकृतानि लवणानीत्यर्थः । विष्णुः । भूतृणशिशुसर्षपसुरसार्जक कूष्माण्डालाबुवार्ताकपाल ड्योपोदकी तण्डुलीयक कुसुम्भमहिषक्षिीराणि वर्जयेत् | "मालातू. णकभूस्तुणे" इत्यमरसिंहे सुडागमसहितस्यैव पाठात्तद्रहितस्यात्र