पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्ज्यमूलफलनिर्णयः । आमलकं = धात्रीफलम् | पारावतं = पालेवतम् । आक्षोटो द्वीपान्तरीयपीलुफलमिति हेमाद्रिः | कसेरुः =रोमशः कन्दः कसेरुनाम्ना प्रसिद्धः । कोविदारं

काञ्चनारस्य तत्सदृशस्य वा वृक्षस्य फलं पुष्पं च । तालकन्दः

तालमूलकन्दः । तमालं=तापिच्छम् | शतकन्दं= शतावरी | मध्वालुः=मधुरैकरसः कन्दः, मोहालुरिति प्रसिद्धः । शीतकन्दली - शीतकन्दः शालूकमिति यावत् । कालेय=करालाख्यः शाकः | कालशाकं पूर्वोक्तम् । सुनिषष्णः=चाङ्गेरीसदृशो जलप्रभवः शाकविशेषः, सुणसुणेति प्रसिद्धः । सुवर्चला=आदित्यभक्ता । चुञ्चु चुञ्चुरिति प्रसिद्धः । वेत्राङ्कुरः प्रसिद्धः । कट्फल=कट्फलाख्यस्य वृक्षस्य फलम् | कौडणी द्राक्षा= कोकणदेशप्रभवा । मोचकं = कदली | उष्ट्रग्रीव = उष्ट्रीवाकृति फलमुत्तरापथे प्रसिद्धम् | विन्दुक = शितिशारकस्य फलम् | डिण्डिसमिति क्वचित् । मधुसाह्वयं =ज्येष्ठीमधु, मधूकफलं वा । वैकङ्कतादीनि व्याख्यातानि । बृहतीफलं = कण्टकारिका- फलम् | सुगन्धगन्धिः = कर्पूरकचोरकादिः । कन्दविशेषः इत्यन्ये | सिञ्चन्ती = रुदन्ती | नागर= शुण्ठी | दीर्घमूलक=पिण्डमूलकादन्यन्मूलकम् । वायुपुराणे, अगस्त्यस्य शिखास्ताम्राः कषायाः सर्व एव च । सुगन्धिः मत्स्यमांसं च कलायाः सर्व एव च ॥ देया इत्यनुषङ्गः | अगस्त्यस्य = मुनिद्रुमस्य | शिखाः = किशलयानि | ताम्राः = लोहितवर्णाः । कषायाः =कषायरसाः । प्रभासखण्डे, कट्फलं कतकं द्राक्षा लकुचं मोचमेव च । प्रियालं काकमाची च तिन्दुकं मधुकाइयम् ॥ आरामस्य तु सीमान्ताः कलायाः सर्व एव तु । एवमादीनि चान्यानि शस्तानि श्राद्धकर्मणि ॥ कतकम् =जलप्रसादनम् । सीमान्ता=नवपल्लवाः । इति ग्राह्यमूलफलानि ॥ अथ वयनि । वायुपुराणे, 'वर्जनीयानि वक्ष्यामि श्राद्धकर्मणि नित्यशः । लशुनं गृञ्जनं चैव पलाण्डु पिण्डमूलकम् || कलम्बा यानि चान्यानि हीनानि रसगन्धतः । पिप्पली मरिचं चैव पटोलं बृहतीफलम् ॥