पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्ज्यमूलफलनिर्णयः | कालिङ्गं रक्तचारं च चीणाकं धृतचारकम् । श्राद्धकर्माणि वर्ज्यानि गन्धचिर्भटिकं तथा ॥ कपालं काचमांची च करक्ष पिण्डमूलकम् । गृञ्जन चुक्रिकां चुक्र गाजरं पातिकां तथा ॥ जीवकं शतपुष्पा च नालिकां ग्राम्यशुकरम् । हलं नृत्यं सर्षपं च पलाण्डुं लशुनं त्यजेत् ॥ माणकन्दं विषकन्दं तथैव च गतास्थिगम् । पुरुषालं सपिण्डालु श्राद्धकर्मणि वर्जयेत् ॥ नोग्रगन्धं च दातव्यं कोविदारकशिप्रकौ । अत्यम्ल पिच्छिलं रूक्ष अन्यच्च मुनिसत्तम । नैवदेयं गतरसं मद्यगन्धं च यद् भवेत् । हिङ्ग्रगन्धा पनस भुनिम्बं निम्बराजिके || कुस्तुम्बरं कलिङ्गोत्थ वर्जयेदम्लवेतसम् । पिण्याकं शिप्रकं चैव मसूरं गृञ्जनं शणम् ॥ कोद्रवं कोकिलाक्षं च चुक्रं कम्बुच पद्मकम् | चकोरइयेनमांसं च वर्तुलालाबुनालिनी || फलं तालतरूणां च भुक्त्वा नरकमृच्छति । दत्वा पितृभ्यः तैः सार्धं व्रजेत् पूयवहं नरः ॥ तस्मात् सर्वप्रयत्नेन नाहरेत विचक्षणः । निषिद्धानि वराहेण स्वयं पित्रर्थमादरात् ॥ करुण= करुणजातीयं वृक्षफलं गुर्जरदेशे प्रसिद्धम् । काकोल=काकोली फलम् उत्तरापथे प्रसिद्धम् | बहुपुत्रा = शतावरी । अर्जुनीफलं- ककुभताफलम् शाल:- सर्जः। अन्ते वर्तुलालाबुनिषेधात् पुनरत्रालाबुग्रहणं उभयालाबुनिषेधार्थमिति पृथ्वचिन्द्रः । तितपर्णी कद्रुकरोहिणी | कटुपत्रिका=राजिका | रोमशानि=कपिजम्बूपलानि । चिर्भ-गौरक्षाख्यः कर्कटीभेदः । रक्तचारं= लोहितचारफलम् । धृतचारकं= चिरसंगृहीतचारफलम् । गन्धचिर्भटिकम् = गन्धयुक्तचिर्भटम्। कपाल=नारिकेलम् | गुञ्जन=हरिद्रक्तवर्णः पलाण्डुभेदः । चुक्रिका चाङ्गेरी। 'चाङ्गेरी चुक्रिका दन्तशठाऽम्बष्ठाम्ललोणिका' इति अमरेऽभिधानात् । गुडमधुकासिकमस्त्वादिद्रवद्रव्यं धान्याधू ध्माणत्र्यहं सप्ताहादि कालं वा अवस्थाप्यातिशुततां नीतं चुकमुच्यते । गाजरं गाजरमिति प्रसिद्धं । जीवकः-जीव संशयैवोत्तरापथे प्र ४७