पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ग्राह्यमूलफलनिर्णयः । वर्जयेत्सर्वयत्नेन श्राद्धकाले द्विजोत्तमः ॥ मरिचान्यार्द्राणि न शुष्काणीति हेमाद्रि | ब्रह्मवैवर्ते, मसूराः शतपुष्पाञ्च कुसुम्भं श्रीनिकेतनम् | वर्ज्याश्चातियवा नित्यं यथा वृषयवासकौ ॥ श्रीनिकेतनम् = रक्तबिल्वम् । अतियवाः = शालिभेदाः | वृषो वासा | यवासको = दुरालभा । इति वर्ज्यानि धान्यानि । अथ प्राह्माणि मूलफलानि । तत्र शङ्खः- ४१ आम्रान् पालेवतानिक्षून्मृद्वी का भव्यदाडिमान् । विदार्याश्च भरुण्डांश्च श्राद्धकाले प्रदापयेत् ॥ दद्याच्छ्राद्धे प्रयत्नेन शृङ्गाटबिसकेबुकान् । आम्रान् = चूतफलानि । पालेवतं- जम्बीराकारं फलं काश्मीरेषु प्रति द्धम् | मृदू का द्राक्षा | भव्यं = कर्मरङ्गम् । विदार्यान् = भूकुष्माण्डीकन्दान् । श्राद्धचिन्तामणौ तु विदारीम् इति पाठः । विडालिकन्द इति च व्याख्या. नम् । भरुण्डः =काश्मीरदेशे प्रसिद्धो जलप्रभवः कन्दविशेषः । शृङ्गाटकः= सिङ्गाडा इति प्रसिद्धः । मखाणा इति श्राद्धमञ्जर्याम् । बिसं = पद्मि नीमूलम् | केवुक = कवकनामा आईकसदृशः कन्दविशेषः । ब्रह्मपुराणे, आम्रमाम्रातकं बिल्वं दाडिमं बीजपूरकम् । चीणाकं लकुचं जम्बु भव्यं भूतं तथारुकम् ॥ प्राचीनामलक क्षीरं नालिकेर परूषकम् । नारङ्गं च सखर्जूरं द्राक्षा नीलकपित्थकम् ॥ पटोलं च प्रियालैला कर्कन्धुबदराणि च । वैकङ्कत वत्सकं च एर्वारुर्वारुकानि च ॥ एतानि फलजातीनि श्राद्धे देयानि यत्नतः । आम्रातक=कपीतनस्य फलम् अवाडा इति प्रसिद्धम् | बिल्वं= बाल. श्रीफलम् | चीणाकम् = अतिदीर्घाका रमेर्वारुक सहशम् । लकुच= लिकु. चफलम् वडहरइति प्रसिद्धम् । जम्बु = राजजम्बुफलम् | भूत= बहिः के. सरावृतं फलं कर्णाटके देशे प्रसिद्धम् | आरुकं=वन्यमेवरुकम् । आरुकम्= आरु इति प्रसिद्धमित्यन्ये । प्राचीनामलकं पानीयामलकम् । क्षीरं = राजादनफलम् । नालिकेलं= प्रसिद्धम् | परूषक == कोङ्कणदेशेप्रसिद्धम् । ६ वी० मि०