पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- पर्युषितम्, अनिषिद्धमपि । शङ्खः, राजमाषान्मसुरांच कोद्रवान्कोरदूषकान् । वर्जयेदिति वक्ष्यमाणेन सम्बन्धः । कोद्रवो = वनकोद्रवः | व्यासः, अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा । पुलका:=पुलाकाः, तुच्छधान्यानीति यावत् । छान्दसोऽत्र इस्वः | पद्मपुराणे- कोद्रवोद्दालवरककुसुम्भमधुकातलीः। एतानि नैव देयानि पितॄणां प्रियमिच्छता || उद्दालः श्लेष्मातकः | कुसुम्भं = प्रसिद्धम् | मधुक ज्येष्ठीमधु । त च्छाकसंस्कारकत्वेन प्रसज्यमानं प्रतिषिध्यते । अतसी = प्रसिद्धा तस्या अपि शाकत्वेन तैलप्रकृतित्वेन वा निषेधः । मात्स्ये, - कोद्रवोद्दालवरककपित्थमधुकातसीः । कपित्थं = दधित्थफलम् । ब्रह्मपुराणे, 'सर्वश्राद्धेऽसनं पुष्पं कुसुम्भं राजसर्षपाः । तोवरी राजमाषं च कोद्रवं कोरदूषकम् ॥ वर्ज्य चापक्रियं सर्वे निशि यत्वाहृतं जलम् । अजनपुष्पम् =अञ्जनद्रुमकुसुमम् | तोवरी:=तूवरीति प्रसिद्धा । अपकि. यम् = उचितक्रियारहित मनं न्यूनाधिकलवणदानादिना रसादिद्दीन- मिति यावत् । मार्कण्डेयः, वर्ज्याश्याभिषवा नित्यं शतपुष्पं गवेधुकम् । अभिषवाः =सन्धानानि । शतपुष्पं = मिशिः ॥ ब्राझे, विप्रुषान्मर्कटांश्चारान्कोद्रवांश्चापि वर्जयेत् । चारः =चरकः । कूर्मपुराणे, आढकी कोविदारांश्च (१) पालक्यं मरिचं तथा । ( १ ) पालछुपामिति मयूखे पाठ. ।