पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ग्राह्यधान्यादिविचारः | हारीतः- माषमसूरकृतैलवणानि च श्राद्धे न दद्यात् । कृतलवणं = क्षारलवणम् । माषा: = कृष्णमाषेतरा राजमाषशब्दवा घ्याः, तेषां हि "वर्ज्या मर्कटकाः श्राद्धे राजमाषास्तथैव च" इत्या. दिवचनैः प्रतिषिद्धत्वात् । मर्कटा स्तृणधान्यविशेषा मकरा इति प्रसिद्धाः । चतुर्विंशतिमते, कोद्रवा राजमाषाश्च कुलत्था वरकास्तथा । निष्पावाश्च विशेषेण पञ्चतांस्तु विवर्जयेत् ॥ यावनालानपि तथा वर्जयन्ति विपश्चितः । कुलत्थाः=श्वेताः कृष्णाश्च वर्ज्याः | कृष्णमुद्रादिवत्प्रतिप्रसवाभा. वात् । वरका=वनमुद्गाः । मधूलिकाशब्दस्य शालिभेदवाचित्वे सर्वे यात्रनाला वर्ज्याः । यावनालविशेषवाचित्वे तद्वर्जम् | मधूलिकायाः श्राद्धकर्माणि प्रचेतसा विहितत्वात् । निष्पाचा:- श्वेतशिम्बिधान्यतया प्रसिद्धाः । ते च कृष्णाः । “कृष्णधान्यानि सर्वाणि वर्जयेत्" इत्यनुरो घात् । एवं च "निष्पावाश्चात्र शोभना" इतिपूर्वोक्त मार्कण्डेयवचने निष्पात्राभ्यनुज्ञानं कृष्णेतरविषयम् । निगमः, यावनालानपि तथा वर्जयन्ति विपश्चितः । तैलमप्यापदि प्राज्ञाः सम्प्रयच्छन्ति याशिकाः ॥ तैलमपि वर्जयन्ति इत्यन्वयः | आपदि तु उभयोरभ्यनुज्ञानं "न प्रातस्य विलोपोऽस्ति पैतृकस्य विशेषत" इति वचनादिति हेमाद्रिः । षत्रिंशन्मते, विप्रुषका मसूराश्च श्राद्धकर्मणि गर्हिता । विप्रुषीका: शालिविशेषाः । मरीचिः, कुलस्थाश्चणका श्राद्धे न देयाश्चैव कोद्रवाः । कटुकानि च सर्वाणि विरसानि तथैव च ॥ कटुकानि = पिप्पलादीनि । विष्णुरपि वज्यान्याह- राजमाषमसूरपर्युषितकृतलवणानि च ।