पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- श्यामाकास्तु ततो जाताः पित्रर्थमपि पूजिताः । गोधूमाञ्च यवाश्चैव समुद्रा रक्तशालयः ॥ एते सोमात्समुद्भूताः पितॄणाममृतं ततः । तस्मात्प्रयक्षतो देया एते श्राद्धेषु वंशजैः ॥ मत्स्यपुराणे, अमृत पिबतो वक्त्रात्सूर्यस्यामृतबिन्दवः | निपेतुर्ये तदुत्था हि शालिमुद्रेक्षवः स्मृताः || शर्करा परतस्तस्मादिक्षुसारोऽमृतात्मवान् । इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः ॥ शर्करा=इक्षुविकारः । नागरखण्डे, सृष्टिं प्रकुर्वतो पूर्व पशवो लोककारिणा । खड़वाणशार्दूला: पूर्व शिष्टास्ततोऽपरे || यो यथा प्रथमं सृष्टः स तथा मेध्यतां गतः । गोधूमाश्च मसूराश्च माषा मुद्गास्तथाणवः || नीवाराश्चापि श्यामाका एवं सृष्टा यथाक्रमम् । शाकानि सृजता पूर्व कालशाकः स्वयम्भुवा ॥ असृज्यत ततः श्राद्धे स स्यादक्षय्यकारकः । रसांश्च सृजता पूर्वं मधु सृष्टं स्वयम्भुवा || तेन प्रशस्यते श्राद्धे पितॄणां तृप्तिदायकम् । यच्छ्राद्धं मधुना हीनं तद्द्लैः सकलैरपि ॥ मिष्टान्नैरपि संयुक्तं पितॄणां नैव तृप्तये | अणुमात्रमपि श्राद्धं यदि न स्याञ्च माक्षिकम् ॥ नामापि कीर्त्तनीयं स्यात्पितॄणां प्रीतये ततः । पशून्वै सृजता तेन पूर्व गावो विनिर्मिताः | " तेन तासां पयः शस्त श्राद्धे सर्पिस्तथैव च ॥ खो-गण्डकः । दाणो= निगम उक्त:- त्रिपिबं त्विन्द्वियक्षीणं यूथस्याप्रेचरं तथा । रक्तवर्ण तु राजेन्द्र छागं वाघ्रणसं विदुः || मुखेन सलिलं पिबनु लम्बतया कर्णाभ्यां यो जल स्पृशति स त्रिपिव इत्युच्यते । इति श्रीह्याद्युत्पतिः ।