पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धोचितद्रव्योत्पत्तिनिर्णयः । प्रत्यक्षं हरते यस्तु पश्चादानं प्रयच्छति ॥ स दाता नरकं याति यस्यार्थस्तस्य तत्फलम् । परिभुक्तम विज्ञातम पर्याप्तमसंस्कृतम् । यः प्रयच्छति विप्रेभ्यस्तद्भस्मन्यवतिष्ठते ॥ परिभुकं = कृतोपभोगम् । अपर्याप्तं = कार्याक्षमं जरद्ववादि । अत्र हेमाद्रिः – धयैरेवोपायैरजितेन श्राद्धादीनि कर्त्तव्यानि न तु यत्किञ्चिदुपायाजिंतेनेत्यत्रैषां वचनानां तात्पर्याद्धर्मोपार्जि तद्रव्यस्य श्राद्धाङ्गत्वम् । न च (१) लिप्सासूत्रोक पुरुषार्थताविरोधः, तेन न्यायेन पुरुषार्थत्वे सिद्धे एभिर्वचनैः क्रत्वर्थता बोध्यत इत्याह । तस्माद्धर्मोपार्जितैरेव श्राद्धादीनि कर्त्तव्यानि । अथ श्राद्धोचितद्रव्योत्पत्तिः । तथा, मार्कण्डेयपुराणे, वीयश्च यवाश्चैव गोधूमाश्चाणवस्तिलाः । प्रियङ्गवो युदाराश्च कोरदूषाः सचीनकाः ॥ माषा मुद्रा मसूराश्च निष्पावाः सकुलत्थका । आढक्यश्चणकाश्चैव शणः सप्तदशः स्मृतः ॥ इत्येता अभवन् प्राम्यास्तथारण्याश्च जज्ञिरे । ओषध्यो यशियास्तासां ग्राम्यारण्याश्चतुर्दश ॥ व्रीहयश्च यवाश्चैव गोधूमाश्चाणवस्तिलाः । प्रियङ्गुसहिता होताः सप्तमास्तु कुलत्थकाः ॥ श्यामाकास्त्वथ नीवारा जर्तिलास्सगवेधुकाः । कुरुविन्दा मर्कटकास्तथा वेणुयवाश्च ये || ग्राभ्यारण्याः स्मृता येते ओषध्यश्च चतुर्दश व्रीहयः==षष्ठिका महाब्राह्मादयः । अणवः =वरयिकाः । प्रियङ्कः =कङ्गुः । उदारः=चीन.=कुरुविन्दो=व्रीहि विशेष: । कोरदूषा = कोद्रवाः | नीवारा=आरण्यवहयः । जर्तिला - कृष्णतिलाः । गवेधुकाः कुसुम्भबीजतुल्याः । मर्कटा स्तृणधान्यविशेषाः । वेणुयवा वंश बीजानि । ब्रह्मवैवर्ते, स्वष्टा व यजमानेन वार्यमाणे महात्मना । पपौ शचीपतिः सोमं पृथिव्यां विप्लुषोऽपतन् ॥ (१) मी० अ०४१ ० १ सू० २ ।