पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ग्राह्यधान्यादिविचार: | अथ प्राह्याणि धान्यानि | हविर्यच्चिररात्राय यच्चानन्त्याय कल्पते । पितृभ्यो विधिवद्दत्तं तत्प्रवक्ष्याम्यशेषतः ॥ (अ० ३ श्लो० २६६) तिलैवहियवैर्माषैर द्भिर्मूलफलेन च । दत्तेन मासं प्रायन्ते विधिवत्पितरो-नृणाम् ॥ (अ०३श्लो०२६७) अत्र चिररात्रशब्दो दर्घिकालवचनः । तिलादिगणनं नेतरपरि संख्यार्थम् फलसम्बन्धार्थत्वात् । वचनान्तरवैयर्थ्यापत्तेश्च । तथा, आनन्त्यायैच कल्पन्ते मुन्यन्नानि च सर्वशः । मुन्यनानि =नीवारादीनि | प्रचेताः, कृष्णमाषास्तिलाश्चैव श्रेष्ठाः स्युर्यवशालयः | अगोधूमं च यच्छ्राद्धं कृतमध्यकृतं भवेत् । यवैवी॑हितिलैर्मांषैर्गोधूमैश्चण कैस्तथा । सन्तर्पयेत्पितॄन्मुः श्यामाकैः सर्षपद्रवैः || नीवारैहरिश्यामाकैः प्रियङ्गुभिरथार्चयेत् । सर्षपो = गौर सर्षपः । मार्कण्डेय पुराणे, अत्रि, राजश्यामाकको श्राद्धे तद्वच्चैव प्रशान्तिका । नीवाराः पौष्कराश्चैव वन्यानां पितृतृप्तये ॥ यवत्रीही सगोधूमौ तिलाः मुद्राः ससर्षपाः । प्रियङ्गवः कोविदारा निष्पावाश्चात्र शोभनाः ॥ प्रशान्तिकामध्यदेश प्रसिद्धोधान्यविशेषः । पौष्करा: = पद्मबीजानि | निष्पावाबात्र श्वेतवल्लाः । कूर्मपुराणे, व्रीहिभिा यवैर्माषैरद्भिर्मूलफलेन वा । श्यामाकैऋण कैः शाकैनवारैश्च प्रियङ्कुभिः ॥ गोधूमैच तिलैर्मुत्रैमसं प्रीणयते पितॄन |