पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धोचितद्रव्यनिर्णयः । कृतोपकाराद्यत्प्राप्तं शबलं समुदाहृतम् ॥ पाविकचौराप्रितिरूपकसाइलैः । व्याजेनोपार्जितं यत्तत्सर्वेषां कृष्णमुच्यते ॥ यथाविधेन द्रव्येण यत्किञ्चित्कुरुते नरः । तथाविधमवाप्नोति स फलं प्रेत्य चेह च ॥ आगतशब्दः प्रत्येकं श्रुतादिभिः सम्बध्यते । श्रुतं = विद्या | शौर्य= शौर्यनिमित्तेन यद्विजितम् अथ च भृतिरूपेण लब्धमिति द्वयम् | कन्यागत = कम्याप्रतिग्रह काले इषशुरादिभ्यो यल्लब्धम् | शिष्याद ध्याव्यात् पणव्यतिरेकेण यत्प्राप्तं गुरुदक्षिणादि | अन्वयागतं =दायप्राप्तम् । अत्र यथाधिकारं शुकृत्वं ध्येयम् । न्याय्यवृच्या द्रव्यप्रयोगः कुसीदम् । कृषिः =लाङ्गलकर्म । क्रयविक्रयव्यवहारेण धनवर्द्धनं वाणिज्यम् । शिल्प=कारुकर्म । अनुवृत्तिर्द्विजातिशुश्रूषा | राजादिपार्श्वे वर्त्तमानो य कश्चित्किञ्चित ब्रूते स्वयेदं मम देयं मया च त्वदीयं कार्य कर्त्तव्यमि ति पणं कृत्वा यदर्जितं तत्पाविकम् | द्यूतम् = अक्षदेवनादि । चौर्यम् - शौर्य- निमित्तेन यद्विजितम् अथ च प्रच्छन्नापहारः। आतिः = परपीडा । प्रतिरूपकं परवञ्चनार्थ मणिसुवर्णादेः प्रतिकृतिकरणम् | साहसम्= मारणव्या पाराङ्गीकारेण पश्यतोहरत्वम् । व्याजं=दम्भः | ब्रह्मपुराणे- शुक्लवित्तेन यो धर्म प्रकुर्यात् श्रद्धयान्वितः । तीर्थ पात्रं समासाद्य देवत्वेन समश्नुते ॥ राजसेन च भावेन वित्तेन शबलेन च । प्रदद्यादानमर्थिभ्यो मनुष्यत्वे तदश्नुते ॥ तमोवृतस्तु यो दद्यात्कृष्णं वित्तं तु मानवः । तिर्यक्त्वे तत्फलं प्रेत्य समश्नाति नराधमः ॥ एते च यथा सम्भवं स्त्रीपुंसयोरविशेषेण धर्म्या द्रव्यार्जनोपा. याः । स्त्रीणामेव तु विशेषत आह- याज्ञवल्क्यः, ( अ० २ दाय० श्लो० १४३ ) पितृमातृपतिभ्रातृदत्त मध्यग्न्युपागतम् । (१) आधिवेदनिकं चैव स्त्रीधनं परिकीर्तितम् ॥ १ ) आधिवेदनिकाद्यश्चेति मुद्रितपुस्तके पाठः, आयशब्देन रिक्षक्रयसंवि भागपरिप्रहाधिगम प्राप्तमिति विज्ञानेश्वर; | ५ वी० मि०