पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- एतै =पूर्वोक्तैर्द्रव्यैः । द्वाघीयांसम् दीर्घम् | धर्मानुहृतेन = धर्मोपार्जितेन- शङ्खलिखितौ, धर्मेण वित्तमादाय पितृभ्यो दद्यात् । अतश्च धम्यैरेवोपायैरर्जितानि द्रव्याणि श्राद्धे देयानि | तांचाह- मनुः, सप्तवित्तागमा धर्म्या दायोलाभः क्रयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ ( अ० १० श्लो० ११५ ) वित्तागमाः= वित्तार्जनोपायाः।धर्म्यः = पुरुषस्य प्रत्यवायानुत्पादकाः । स्वस्वामि सम्बन्धेनैव निमित्तेन यदन्यदीयं द्रव्यमन्यस्य स्वं भवति स दायः । अनन्यपरिगृहीतस्य जलतृणकाष्टादेर्घान्यादेर्वाधिगमो ला. भः । द्रव्यविनिमयः कयः | वैरिपराभवो जयः । वृद्ध्यर्थ परस्य द्रव्यस मर्पणं प्रयोग | कर्मणा आविज्याध्यापनपौरोहित्यादिना शिल्पेन शु श्रूषया वा योगः कर्मयोग | दीयमानद्रव्यस्वीकारः प्रतिग्रहः । स तु अनिषिद्धः | अनिषिद्धत्वं च दायादिष्वपि द्रष्टव्यम् । एतेषु च दायला- भक्रयारलाधारणाः, जयः क्षत्रियस्यैव, स च दण्डाऽऽकरकरादीनामु पलक्षणम् । प्रयोगो वैश्यस्यैव, सच कृषिवाणिज्यादेरुपलक्षणम् | आविज्यादिकर्मयोगः प्रतिग्रहश्च ब्राह्मणस्यैव । शिल्पादिकर्मयोगः कारूणामेव | शुश्रूषालक्षणः शूद्रादेरेवेति विवेकः । तथा च-- 1 गौतम | स्वामी रिक्थसंविभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं वैश्यशूद्रयोरिति । J रिक्य = पितृपैतामहं धनम् । सविभाग व्यत्र भ्रात्रादेर्विभक्तभ्रात्रादि द्रव्यम् | अनन्यपरिगृहीतस्य जलकाष्ठादे: स्वीकारः परिग्रह । अधिगमो निध्यादेः प्राप्तिः । एतेषु निमित्तेषु स्वामी भवति । अधिकम् =असाधारणम् । लब्धं=प्रतिग्रहादिभिः । विजितं = विजयादिभिर्लब्धम् । निर्विष्टं=वैश्यकृष्यादिलब्धम् शूद्रशुश्रूषादिलब्धम् । नारदोऽपि, तत्पुन स्त्रिविधं ज्ञेयं शुक्लं शबलमेव च । कृष्णं च तस्य विज्ञेयो विभागः सप्तधा पुनः ॥ श्रुत शौर्यतपः कन्यागतं शिष्यान्वयागतम् । धनं सतविधं शुक्लमुदयोऽस्य तु तद्विधः || कुसीद कृषिवाणिज्य शिल्पशुक्लानुवृत्तितः |