पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- इति मानवसूत्रे स्पष्टप्रयोगविधानात् । अत्र च गोत्रसगोत्रपदयोर्यद्यपि पर्यायत्वं - "पराशरसगोत्रस्य वृद्धस्य सुमहात्मनः" । इत्यादिप्रयोगात्प्रतीयते, तथाप्यत्र गोत्रशब्द एव प्रयोक्तव्यः । "अमुकामुक गोत्रैतत्तुभ्यमन्नं स्वधा नमः" । इति ब्रह्मपुराणादिवचनादिति । अथ गन्धादिदाने सम्प्रदानं निर्णीयते । तत्र "गन्धान्ब्राह्मणसात्कृत्वा" इति मरीचिवचने तदधीनवचन- तायां विहितेन सातिप्रत्ययेन दीयमानगन्धादेब्रह्मणस्वामिकत्वावग तेर्गन्धादिभोक्तृत्वाच्च "एतस्मिन्काले गन्धमाल्यधूपदीपाच्छाद- नानां प्रदानम्" इत्याश्वलायनेन गन्धादेर्दानविधानात्तस्य च प्रतिग्रही तृव्यापारलाध्यत्वाद्देवतायाश्चाप्रतिग्रहीतृत्वा ब्राह्मणानामेच सम्प्रदा नत्वम् । अयं वो धूप इत्युक्त्वा तद्ग्रे च दहेत्ततः । इति ब्रह्मपुराणाच्च तथा । अत्र तदप्रेशब्देन पूर्ववाक्यनिर्दिष्टब्राह्म णानामेवाग्रदेश उच्यते, न तु देवतायाः, अमूर्त्तत्वाद् देशान्वयायो गाव | धूपग्रहणं गन्धाधुपलक्षणम् आश्वलायनसूत्रे प्रायपाठात | उपवेश्यासने शुभं छत्र तत्र प्रकल्पयेत् । आवरणार्थं च तद्वत्रं ब्राह्मणाय प्रदापयेत् ।। इति वराहपुराणे चतुर्थी श्रुतेश्च ब्राह्मण सम्प्रदानकत्वावगमः । विभवे सति विप्रेभ्यो योऽस्मानुद्दिश्य दास्यति । इति विष्णुपुराणीयपितृवाक्ये स्पष्टं विप्राणां देवतानां च सम्प्रदान. त्वोद्देश्यत्वभेदावगतेश्च | उद्देश्यता तु पितॄणामेव सम्प्रदान (१) ( न तु सम्प्रदानत्व) मिति हरिहरः । श्रीदत्तादयस्तु “योऽस्मानुद्दिश्य दास्यति" इति विष्णुपुराणात्, पतानि श्रद्धयोपेतः पितृभ्यो यो निवेदयेत् । इति वाराहाच स्पष्टं देवताया (२) उद्देश्यत्वमवगम्यमानं नापहोतुं श क्यम् । किञ्च "ते तृप्तास्तर्पयन्त्येनम्" इत्यादिवचनैः पितृतर्पकता श्राद्धस्यावसीयते सा च तदुद्देशेन द्रव्यत्याग एवोपपद्यते, लोके तथा दर्शनात् । (९) अयं कोष्टान्तर्गतः पाठ आदर्शपुस्तके नास्ति । (२) सम्प्रदानत्वमित्यर्थः ।