पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सम्बन्धगोत्रनामोच्चारणक्रमविचारः । भृगुस्तु, गन्धमाल्यं च धूपं च दीपमन्नं सदक्षिणम् । अपृथक्त्वेन दातव्यं चतुर्थ्या विधिमिच्छता ॥ अपृथक्त्वेन=अवैषम्येण । अत्र दर्शितवचनेषु यत्र विरोधस्तत्र विकल्पो द्रष्टव्यः, एकार्थत्वात् । स च यथाशास्त्रं व्यवस्थितः । उक्तानुसारेण प्रयोगो गृह्यपरिशिष्टे । गोत्रं स्वरान्तं सर्वत्र गोत्रस्याक्षय्यकर्मणि । गोत्रस्तु तर्पणे कुर्यादेचं दाता न मुह्यति ॥ सर्वत्रैव पितः प्रोक्तः पिता तर्पण कर्माणि । अक्षय्ये तु पितुः कार्ये पितॄणां तृप्तिमिच्छता ॥ शर्मन्नर्थ्यादि के कार्ये शर्मणोऽक्षय्यकर्मणि । शर्मा तु तर्पणे कुर्यादेवं कुर्वन्न मुह्यति ॥ गोत्रं = तच्छब्दः । स्वरान्तम् =अजन्तम् | सर्वत्र = अपवादादन्यत्र । यद्यपि सप्तम्यन्तमप्यजन्तं भवति, तथापि तस्याविहितत्वात्तद्व्युदासः । एवं गोत्रस्येत्यादि तत्तद्विभक्ति प्रदर्शनार्थ द्रष्टव्यम् । एकवचनपुंल्लिङ्गपित्रादिशब्दाः प्रदर्शनार्थाः । मातृमातामहादिशब्दानामपि तत्र तत्र योज्यत्वात् । उक्तं च नागरखण्डे - मातर्मात्रे तथा मातुरालने कल्पनेऽक्षये । गोत्रे गोत्रायै गोत्रायाः प्रथमाद्या विभक्तयः ॥ देवि दैव्यै तथा देव्या एवं मातुश्च कीर्त्तयेत् । इति विभक्तिनिर्णय । तत्र प्रचेताः, व्यासः, अथ सम्बन्धगोत्रनामोच्चारणक्रमः । गोत्रसम्बन्धनामानि यथावत्प्रतिपादयेत् । आलव्य नामगोत्रेण कर्त्तव्यं सर्वदैव हि । अत्र सम्बन्धना मगोत्रशब्दानां नानाक्रमदर्शनाद्विकल्पः । स ऐच्छिकः शाखाभेदेन वा व्यवस्थितः । सम्बन्धस्तु पित्रादिशब्दैरेव निर्देष्टभ्यो नास्मच्छन्देनेति केचित्प्राच्याः | तज्ञ | “नामगोत्रे उच्चार्य मम पितरेतन्वेऽर्षे मम पितामह; एतत्तेऽर्धे मम प्रपितामहैत तेऽर्घम्"