पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- अशक्तौ तु स्वभर्तृप्रभृतित्रिभ्यः स्वपितृभ्यस्तथैव च । विधवा कारयेच्छ्राद्धं यथाकालमतन्द्रिता || अथ विभक्तिनिर्णयः ।

तत्र विभक्तिज्ञानस्यावश्यकत्वमुक्तं नागरखण्डे, विभक्तिरहितं श्राद्धं क्रियते यद्विपर्ययात् । अकृतं तद्विजानीयात्पितॄणां नोपतिष्ठते ॥ तस्मात्सर्वप्रयतेन ब्राह्मणेन विजानता | विभक्तिभिर्यथोक्ताभिः श्राद्धं कार्य त्रिभिः सदा ॥ विभक्तिरहितम् = विहित विभक्तिरहितम् | तिसृभिरित्यर्थे त्रिभिरिति छान्दसम् । एतच्चैकोद्दिष्टाभिप्रायेण | तत्रावाहनाभावेन द्वितीयाया अप्रयोगात्| अन्यत्र चतस्रो वक्ष्यमाण वचनात् । विभकीराह - व्यासः, चतुर्थी त्वासने नित्यं सङ्कल्पे च विधीयते । प्रथमा तर्पणे प्रोक्ता सम्बुद्धिमपरे जगुः ॥ सङ्कल्पे= अनोत्सर्गे धर्मोऽपि, पृच्छाक्षयासने षष्टी चतुर्थी चासने मता । अर्ध्यावनेजनं पिण्डं तथा प्रत्यवनेजनम् ॥ सम्बुद्ध्यैतानि कुर्वन्ति शब्दशास्त्र विशारदाः | पृच्छा श्राद्धारम्भे प्रश्नवाक्यम् | अक्षयं तदुदकदानम् । अवनेजनं= पिण्डदानात्प्राक् पिण्डार्थरेखायां, पिण्डदानोत्तरं च पिण्डेषु जलनिनयनम् । आवाहने द्वितीया स्यादेष शास्त्रावनिर्णयः । सङ्ग्रहकारस्तु क्वचिद्विशेषमाह - अक्षय्यासनयोः षष्ठी द्वितीयाचाहने तथा । अन्नदाने चतुर्थी स्याच्छेषाः सम्बुद्धयः स्मृताः ॥ भविष्योत्तरे तु, चतुर्थी सर्वकार्येषु प्रथमा तर्पणे भवेत् । षष्ठीविभक्तिरक्षय्ये पितृकार्ये यथाविधि ॥