पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विधवाकर्तृकश्राद्धदेवतानिर्णयः । मृता ये चाप्यसंस्कारास्तेषां भूमौ प्रदीयते ॥ मार्कण्डेयपुराणे, मनुः, अन्नप्रकिरणं यत्तु मनुष्यैः क्रियते भुवि । तेन तृप्तिमथायान्ति ये पिशाचत्वमागताः ॥ ये चादन्ताः कुले बालाः क्रियायोग्या ह्यसंस्कृताः । विपनास्तेऽत्र विकिरसंमार्जनजलाशिनः ॥ उच्छेषणं भूमिगत मजिस्याशठस्य च । दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते ॥ (अ०३ इलो०२४६) पित्र्ये = पितृकर्मणि ॥ वसिष्ठः, प्राक् संस्कारात्प्रमीतानां सप्रेष्याणामिति श्रुतिः । भागधेयं मनुः प्राह उच्छिष्टोच्छेषणे उभे ॥ आश्वलायनगृह्यपरिशिष्टम्, उच्छेषणं भूमिगतं विकिरं लेपनोदकम् । अनुप्रेते च विसृजेदप्रजानामनायुषाम् ॥ इति । अथ संन्यासाङ्क्षश्राद्धदेवतानिर्णयः । सङ्ग्रहे, शौनकः, देवऋषिदिव्यमनुष्यभूतपितृमातृआत्मादीनां पृथक् पिण्डदानैर्युग्मैर्ब्राह्मणैरष्टौ श्राद्धानि कुर्यादिति । तत्राद्ये श्राद्धे ब्रह्मविष्णु महेश्वराः | द्वितीये देवर्षिब्रह्मर्षिक्षत्रियर्षयः । क्वचितु देवर्षिक्षत्रर्षिमनुष्यर्षय इति पाठः । तृतीये वसुरुद्रादित्या: । चतुर्थे सनकसन न्दनखनातनाः । पञ्चमे पृथिव्यादिभूतानि चक्षुरादीनि करणानि चतुर्विधो भूतग्रामः । षष्ठे पितृपितामह प्रपितामहाः, मातामहप्रमाता महवृद्धप्रमातामहाच । सप्तमे मातृपितामहीप्रपितामह्यः । अष्टम आत्मपितृपितामहाः । एते सर्वे नान्दीमुखविशेषणवन्तो देवताः । जीवच्छ्राद्वादिदेवतास्तत्तत्प्रकरणे वक्ष्यामः । अथ विधवाकर्तृकश्राद्धदेवता । चत्वारः पार्वणाः प्रोक्ता विधवायाः सदैव हि । स्वभर्तृश्वशुरादीनां मातापित्रोस्तथैव च || ततो मातामहानां च श्राद्धदानमुपाक्रमेत् |