पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- "विश्वे देवास आगत" इत्यावाहनमन्त्रश्च । न वा विश्वदेवपदेन क्रतुदक्षादिपदेन च समुच्चयान्निर्देशः समुचितः, निरपेक्षश्रवणात् । किञ्च समुचये कीदृशं वाक्यं, विश्वाभ्यां देवाभ्यां क्रतुदक्षाभ्यामिति वा, विश्वेभ्यो देवेभ्यः क्रतुदक्षाभ्यामिति वा, विश्वेभ्यो देवेभ्यः क्रतुदक्षेभ्य इति वा, विश्वेभ्यो देवेभ्यः क्रतुदक्षसंज्ञकेभ्य इति वा । नाद्यः । विश्वदेवपदस्य बहुवचनान्तस्यैव सर्वत्र दर्शनात्तस्य बहुवचनेनैव निर्देश्यत्वावगतेः । न द्वितीयः | अनन्वयात् | तुल्याधिकरणयोर्विशेष णयोः समानविभक्तिवचननियमात् । उर्वश्यप्सरस इतिवत्प्रयोगसा धुत्वेनान्वयो न विरुद्ध इति चेत्, प्रमाणसिद्धायां प्रयोगावश्यकत कल्पनायामुचितत्वात् । न चेह तथा । न तृतीयः । क्रतुदक्षयोर्बहुत्वाभावेन बहुवचनार्थानन्वयात् । अत एव न चतुर्थः । संज्ञाशब्दान्तर्भावेन देवतात्वाभावाश्चेति । तस्माद्यथोक्तैव व्याख्या ज्यायसीत्याह । वस्तुतस्तु "सङ्कीय वैश्यदेविके" इत्युक्तवाक्यैकवाक्यतया "इष्टिश्राद्धे क्रतुर्दक्ष" इत्यादि बृहस्पतिवाक्यस्य कीर्त्तनपरत्वे सिद्धे वि श्वदेवपदस्य सर्वत्र बहुवचनान्तप्रयोगदर्शनेन बहुवचनान्तस्यैव तस्य साधुत्वे निर्णीत उर्वश्यप्सरस इतिवत् क्रतुदक्षौ विश्वे देवा इत्या दिप्रयोगो नानुपपन्नः । विशिष्य नामाशाने विश्वेषां देवानाम् इत्याद्येव प्रयोक्तव्यम् । हेमाद्रिस्तु पूजार्थं बहुवचनमिति मन्वानः क्रतुदक्षसंशका विश्वे देवा इति प्रयोगमङ्गीचकार । अत्र विश्वे देवा इत्यसमस्तमेव प्रयोज्यम् सर्वत्र तथा प्रयो गदर्शनात् । अत एव गणविशेषवाचकस्यापि विश्वशब्दस्य सर्व नामकार्य न विरुद्धम् | अभिधाय सर्वनामतानिषेधस्मृतिस्तु आधु- निकसङ्केतविषयस्यैव विश्वशब्दस्य सर्वनामकार्यनिषेधादुपपन्ना । अथ विकिरभुक्तोच्छिष्टयोर्देषतानिर्णयः । तत्र मनुविष्णू- असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् । उच्छिष्टं भागधेयं स्याइर्भेषु विकिरस्तु यः || कुलयोषितां त्यागिनामित्यन्वयः । हारीतः, ( म० अ० ४ श्लोक० २४५ ) अरूढदन्ता ये च मृता गर्भाद् य च विनिःसृताः ।