पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वैश्वदेविकश्राद्धदेवतानिरूपणम् । नमनुपपत्रमिति नैमित्तिकशब्देनात्र योगपुरस्कारेण श्राद्धान्तरस्यैवा भिधानमिति द्रष्टव्यम् । श्रीदत्तादयस्तु एकोद्दिष्टरूपे नैमित्तिके देवनिषे- धात्, ,"नैमित्तिके कामकालौ” इत्यत्र नैमित्तिकपदमेकोद्दिष्टरूपनैमित्तिकयोगात्सपिण्डीकरणपरम् । सपिण्डीकरणश्राद्धं देवपूर्व निवेदयेत् । इत्यनेन तस्य सदेवत्वाभिधानादित्याहु । कल्पतरुकारस्तु नैमित्तिकपदमत्र सानिकक्रियमाणसांवत्सरिकै कोद्दिष्टपरम् | तस्य पार्वणवत् क्रियमाणतया तत्र विश्वेषां देवानां सम्भवादित्युक्तवान् । काम्ये चेति । काम्यस्य निरुक्तिर्भविष्यपुराणे -- कामाय तु हितं काम्यमभिप्रेतार्थसिद्धये ॥ इति । अभिप्रेतं = धनपुत्रादि । तत्सिद्धये = तत्प्राप्तये । तच्चापस्तम्बाधुकं तत्तत्तिथ्यादौ श्राद्धादि । तच्च वक्ष्यते । अत्र विश्वे देवाः क्रतुदक्षावि त्यादित्यपुराणादिवाक्येषु सर्वत्र द्विवचनश्रवणान्मिलितयोस्तयोः श्राद्धे देवतात्वम् । उत्पत्तिमित्यादि। ये विश्वेषां देवानामुत्पत्ति नाम च न जानन्ति तैर्मन्त्रलिङ्गादावाहनकाले आगच्छन्त्वित्यादिमन्त्रः पठनीयः, अत्र तत्तच्छ्राद्धे तत्तदेवताविशेषप्रतिपादनात्तत्तन्नाम सङ्कीर्त्तनपूर्वक मेव निमन्त्रणादिवाक्यं प्रयोज्यं, न तु केवलविश्वदेवपदेन । संशावि घेरुद्देशप्रयोजनत्वात् । अत एव - "इष्टिश्राद्धे क्रतुदक्षौ सङ्कीय वैश्वदेविके । इतिहेमाद्रिधृतवाक्ये सङ्कीर्त्यावित्युक्तम् । श्रीदत्तस्तु नेदं वाक्यं क्रतुदक्षादिनामनिर्देशपरं तथा श्रवणा- भावात्, किन्तु योऽसौ गणो विश्वदेवपदनिर्देश्यस्तत्र क्रतुदक्षा- दियुगस्य इष्टिश्राद्धादौ मुख्यत्वं चिन्तनीयमित्येवम्परम् । मुख्यत्वेन चिन्तनीयत्वमप्यनुतमितिचेत्, 'प्राधान्येन व्यपदेशा भवन्ति' इति न्यायात्प्राधान्य ऋतुदक्षादिव्यपदेशादेव लभ्यते, चिन्तनीयत्वं तु एतेषामुत्पतिनामाज्ञाने आगच्छन्तिवत्यादिमन्त्र पाठविधानात्कल्प्य ते । अत एव सर्वत्र मुनिवाक्ये बहुवचनश्रवणाद्गणस्यैवोद्देश्यता प्रतीयते न तूभयोरेव | यथा "नमोबिश्वेभ्यो देवेभ्य इत्येवमादौ प्राङ्मुखयोनिवेदयेत्” इति विष्णुः, विश्वान्देवान् यवैः पुण्यैरभ्यर्थ्यासनपूर्वकम् | इति मत्स्यपुराणम्, "विश्वान्देवानहमाषाहयिष्य" इति कात्यायनः, ४ वी० मि०