पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ वीरमित्रोदयस्य श्राद्धप्रकाशे- इत्यादिनाभविष्यपुराणादिवाक्येन विवृतम् । नान्दीमुखन्तु वृद्धिश्रा खम् । तच्च- वृद्धौ यत्क्रियते श्राद्धं वृद्धिश्राद्धं तदुच्यते । इति भविष्यपुराणेनोक्तम् । वृद्धि:पुत्रजन्मादि । कल्पतरुकारादयस्तु इष्टिश्राद्धमिच्छाश्राद्धम्, तच्च "श्राद्ध प्रति रुचिश्चैव" इत्यनेन याज्ञवल्क्येन विहितमिति व्याख्यातवन्तः | तन्मते च कर्माऽङ्गश्राद्धस्य नान्दीमुखश्राद्धेऽन्तर्भावाद्वसुसत्यावेव तत्र देवौ । नैमित्तिके कामकाला विति । नैमित्तिकपदं चात्र नवान्ननिमित्तश्राद्धपरम् । विश्वे देवाः क्रतुदक्षौ सर्वास्विष्टिषु कीर्त्तितौ । नित्यं नाम्दीमुखे श्राद्धे वसुसस्यौ च पैतृके ॥ नवान्नलाभे देवौ हि कालकामौ सदैव हि । अपि कन्यागते सूर्ये श्राद्धे च धुरिलोचनौ । पुरुरवावौ चैव विश्वेदेवाश्च पार्वणे ॥ इति हेमाद्रयादिघृतादित्यपुराणवचनैकवाक्यत्वात् । इष्टिषु = कर्माङ्गश्राद्वेषु | नवान्नलाभ इति=नवान्नानां लाभो यस्मादिति व्युत्पच्या व्रीहियवपाकौ धान्यपाकश्चोक्तः । कन्यागते सूर्ये इति कास्यश्राद्धस्याप्युपलक्षणम् । “काम्ये च धुरिलोचनौ" इति बृहस्पतिवच वचनैकवाक्यत्वात् । क्वचित्तु श्राद्धं चेत्यत्र काम्ये चेति पाठ एव | नवानश्राद्धस्य नैमित्तिकत्वं शातातपवचने व्यक्तम् । यथा, नवोदके नवान्ने च गृहप्रच्छादने तथा । पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च ॥ तस्माद्दद्यात्सदोद्युक्तो विद्वत्सु ब्राह्मणेषु च । नवोदके = वर्षोपक्रमे । गृहप्रच्छादने = नवगृहसम्पत्तौ । विद्वत्सु ब्रा- ह्मणेषु च प्राप्तेषु । हेमाद्रिस्तु "नैमित्तिके कालकामौ" इत्यत्र यौगिकनै मित्तिकपदश्रवणात्, आदित्यपुराणे नवानलाभपदं ग्रहोपरागादिनि- मित्तकनैमित्तिकश्राद्धमात्रोपलक्षणार्थमित्युक्तवान् | सर्वथा एकोदिष्टन्तु यच्छाद्धं तन्नैमित्तिकमुच्यते । तदव्यदैवं कर्त्तव्यमयुग्मानाशयेद् द्विजान् || इति भविष्यपुराणवाक्येन परिभाषितैकोदिष्ट रूपनैमित्तिके तेनैव दैवनिषेधात् । 'नैमित्तिके कालकामौ' इत्यनेन तत्र देवताविशेषविधा