पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वैश्वदेविकश्राद्धदेवतानिरूपणम् | श्राद्धेऽस्माक भवेद्देयं स ह्येषः काङ्क्षित वरः । प्रत्युवाच ततो ब्रह्मा तान्वै त्रिदशपूजितः ॥ भविष्यश्येवमेवेति काङ्गतो वो वरोऽस्तु यः | पितृभिश्च तथेत्युक्तमेवमेतन्न संशयः ॥ सहास्माभिस्तु भोक्तव्यं यत्किञ्चित्त्यज्यते त्विह । अस्माकं कल्पिते श्राद्धे भवन्तोऽग्राशिनो हि वै ॥ भविष्यथ मनुष्येषु सत्यमेतदुदाहृतम् । माल्यैर्गन्धैस्तथानेन युष्मानण्यचंयन्तु वै ॥ दत्ते दत्तेऽथ युष्मभ्यमस्मभ्यं दास्यते ततः । विसर्जनमथास्माकं पूर्व पश्चात्तु दैवतम् ॥ इति ॥ तेषां सविनियोगानि नामान्याह- बृहस्पतिः, क्रतुर्दक्षो वसुः सत्यः कामः कालस्तथैव च । धुरिश्च रोचनश्चैव तथा चैष पुरुरवाः ॥ आवश्च दशैते तु विश्वे देवाः प्रकीर्त्तिताः । इष्टिश्राद्धे ऋतुर्दशः सत्यो नान्दीमुखे वसुः ॥ नैमित्तिके कामकालौ काम्ये च धुरिलोचनौ । पुरुरवा आवश्च पावणे समुदाहृतौ ॥ उत्पत्ति नाम चैतेषां न विदुर्ये द्विजातयः | अयमुबारणीयस्तैः श्लोकः श्रद्धासमन्वितैः ॥ आगच्छन्तु महाभागा विश्वेदेवा महाबलाः । ये यत्र विहिता श्राद्धे सावधाना भवन्तु ते ॥ इति ॥ अत्र पुरुरवः शब्दः सान्तः । आर्द्रवशब्दस्त्वाकारादिरकारान्तः, पुरुरवसमार्द्रवमिति शङ्खलिखितोक्कतर्पणविधौ तथा दर्शनात् बहुषु निबन्धेषु तथा पाठदर्शनाञ्चेति श्रीदत्तादयः । कामधेनौ तु माकारादिः सकारान्तो माद्रवः शब्दो लिखितः । गौड निबन्धेषु तु पुरुरवः शब्द उकारादियुक्ताद्यरेफवान् सकारान्तो दृश्यते क्वचित्तु अकारान्त एव पुरुरवशब्दोहश्यते । इष्टिश्राद्धं "कर्माझं नवमे प्रोक्त" मित्यनेन विश्वामित्रेणोक्तम् । तथा- निषेककाले सोमे च सीमन्तोन्नयने तथा । शेयं पुंसवने चैव श्राद्धं कर्माङ्गमेवच |