पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- स्क्रत्वन्तर्गतार्षेयप्रवरवरणे बोध्यम् । निर्वापे= पितृयज्ञे । एकपिण्डे वेत्यत्र एकैकस्मिन्निति वीप्सा द्रष्टव्या । "यदि द्विपिता स्यादेकैकस्मिन्द्वौ द्वावुपलक्षयेत्” इत्यापस्तम्बवचनानुसारात् । तस्मादेकैकास्मन्नेव पिण्डे द्वौ पितरौ पितामहौ प्रपितामहौ वानुकीर्त्तनीयावित्यर्थ: । द्वितीये= पितामहपिण्डे । द्वितीय इति च प्रपितामहस्याप्युपलक्षणम् । पुत्रो द्यामु ष्यायणस्य। द्वौ द्वौ निर्वापे दद्यात् द्वौ द्वावनुकीर्त्तयेद्वेत्यर्थ | तृतीये= प्रपितामहपिण्डे । पौत्रो द्व्यामुष्यायणस्य | २० अथ ह्यामुष्यायणस्य पित्रादयोऽपि यदि ह्यामुष्यायणास्तत्र विशेषः कथ्यते । तत्र यदि ह्यामुष्यायणस्य पितामह [एक] एव ह्यामुण्यायणस्तदा पितृभ्यां पिण्डद्वयं दवा पितामहाभ्यामपि पिण्डद्वयं दत्वा प्रपितामहेभ्यः पिण्डत्रयं दद्यादित्येषं सप्त पि. ण्डान्दद्यात् । यदा तु ह्यामुध्यायणस्यान्यतरः पिता द्यामुष्यायणो भवेत्तदा पितृभ्यां पिण्डद्वयं प्रदाय पितामहेभ्यः पिण्डत्रयं दत्त्वा प्रपितामहेभ्यस्त्रयमित्यष्टौ पिण्डान्दद्यात् । यदा तु तस्यान्यतरः पिता यामुष्यायणः अन्यतमः पितामहोऽपि ड्यामुष्यायणः तदा पितृभ्यां पिण्डद्वयं निरूप्य पितामहेभ्यस्त्रीन्पिण्डान्दत्त्वा प्रपितामहेभ्यश्चतुरो दद्याहित्येवं नव | यदा तु यामुष्यायणस्य द्वावपि पितरौ ह्यामुष्यायणौ स्यातां तदा पितृभ्यां द्वौ पिण्डौ दत्त्वा पितामहे भ्यश्चतुरो दत्त्वा प्रपितामहेभ्योऽपि चतुरो दद्यादित्येवं दश | यदा तु द्यामुष्यायणस्य द्वावपि पितरौ यामुष्यायणौ पितामहस्त्वक एव द्या. मुध्यायणः तदा पितृभ्या द्वौ पिण्डौ प्रदाय पितामहेभ्यश्चतुरो दत्त्वा प्रपितामहेभ्यः पञ्च दद्यादित्येवमेकादश | यदा तु यामुष्यायणस्य द्वावपि पितरौ ह्यामुष्यायणौ द्वावपि पितामहौ यामुध्यायणौ भवतः तदा पितृभ्यां पिण्डद्वयं पितामहेभ्यश्चतुरः पिण्डान्दत्वा षट् प्रपितामहेभ्यः षड्भ्यो दद्यादित्येवं द्वादश । यदा तुड्यामुध्यायणस्य द्वावपि पितरौ द्व्यामुष्यायणौ पितामहाश्च त्रयो यामुष्यायणाः तदा पितृभ्यां पिण्डद्वयं पितामहेभ्यश्चतुरः पिण्डान्दत्वा प्रपितामहेभ्यः सप्तभ्यः सप्त पिण्डान्दद्यादित्येवं त्रयोदश। यदा च यामुण्यायणस्य द्वावपि पितरौ यामुष्यायणौ पितामहाश्चत्वारोऽपि यामुष्यायणास्तदा पितृभ्यां पिण्डद्वयं पितामहेभ्यश्चतुर्थ्यश्चतुरः पिण्डान्दवा प्रतितामहेभ्योऽष्ट [ ] एतरकोष्ठान्तर्गत• पाठोमूलपुस्तके नास्ति अस्माभिरेष पर्याालोच्य सन्निवेशिः।