पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्विपितृकश्राद्धनिर्णयः। णपक्षे नियममाह - लौगाक्षिः, दर्शश्राद्धं गयाश्राद्ध श्राद्धं चापरपक्षिकम् । न जीवत्पितृकः कुर्याप्तिलैः कृष्णैश्च तर्पणम् ॥ इति । ऋतुरपि, अष्टकादिषु सङ्क्रान्तौ मन्वादिषु युगादिषु । चन्द्रसूर्यग्रहे पाते स्वेच्छया राजयोगतः || जीवत्पिता नैव कुर्याच्छा काम्यं तथाखिलम् । इति । अथ द्विपितृकश्राद्धनिर्णयः । तत्र द्विपितृकमाह - बौधायनः, मृतस्य च प्रसुतो यः क्लीबस्य व्याधितस्य च । अन्येनानुमते वा स्यात्स्वक्षेत्रे क्षेत्रजः सुतः ॥ स एव द्विपिता द्विगोत्रश्च, मृतादीनां क्षेत्रेषु अन्येन यः प्रसूतः स क्षेत्रज इत्यर्थः । अत्रविशेषमाह - हारीतः, जीवति क्षेत्रजमाहुरस्वातन्त्र्यान्मृते यामुष्यायणमगुप्तबीजवा. दिति । जीवत्यजीवत्यपि क्रियाभ्युपगमात् द्विपितृको भवतीत्याह- मनुः, (१) क्रियाभ्युपगमारवेवं बीजार्थं यत्प्रदीयते । तस्येह भागे दृष्टौ बीजी क्षेत्रिक एव च ॥ (अ०९. श्लो५३) अपुत्राभ्यां बीजिक्षेत्रिभ्यां मम क्षेत्र तव बीजम् इत्येवंनियोगेनोत्पादित उभयो पुत्रो भवतीत्यर्थः । तत्र - साङ्ख्यायनः - उभावेकस्मिन्पिण्डे पितृभेद इति । उभौ=बीजिक्षेत्रिणौ । एकस्मिन्पिण्डे सङ्कीर्त्तयेदित्यर्थः - हारीतः, नाबीजं क्षेत्रं फलति नाक्षेत्र बीजं रोहति उभयदर्शनात् उभयो रपत्यमित्यपरे तेषामुत्पादयितुः प्रथमः प्रवरो भवति द्वौ द्वौ पिण्डौ निर्वापे दद्युरेकपिण्डे वा द्वावनुकीर्तयेत् द्वितीये पुत्रस्तृतीये पौत्र इति । उभयोरपत्यमिति कियानियमे बोध्यम् | तेषा=बीजिक्षेत्रिणां पितॄणां मध्ये उत्पादयितुः बीजिनः प्रथमः प्रवरो भवति ततः क्षेत्रिणः । तदेत-


( १ ) क्रियाभ्युपगमास्वेतदिति पाठान्तरम् ।