पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८ वीरमित्रोदयस्य श्राद्धप्रकाशे- यदप्युक्त जीवति पितामहादौ पित्रादेः सपिण्डीकरणं ना स्तीति, तदव्यसत् । मृते पितरि यस्याथ विद्यते च पितामहः । तेन देयास्त्रयः पिण्डाः प्रपितामहपूर्वकाः ॥ तेभ्यस्तु पैतृकः पिण्डो नियोक्तव्यश्च पूर्ववत् - इति सपिण्डीकरण प्रक्रम्य ब्रह्मपुराणे तस्यापि सपिण्डीकरणोक्तेः । मैत्रायणीय परिशिष्टे त्वन्यत्राप्युक्तो नियमः | उद्वाहे पुत्रजनने पित्र्येष्ट्यां सौमिके मखे । तीर्थे ब्राह्मण आयाते षडेते जीवतः पितुः ॥ जीवतः पितुः पुत्रस्येति शेषः । अनादरेण वा षष्ठ्यर्थः । जीवन्तमनादृत्य तदूर्ध्वपितृदेवस्यकर्मकाला इत्यर्थः । उदाहे= द्वितीयादिविवाहे । नान्दीश्राद्धं पिता कुर्यादाद्ये पाणिग्रहे बुधः । अत ऊर्ध्वं प्रकुर्वीत स्वयमेव तु नान्दिकम् ॥ इतिस्मृतेः । पुत्रजननं नामकरणादीनामुपलक्षणमिति निबन्धकाराः । पिज्येष्टिश्चातुर्मास्येषु साकमेध पर्वणि प्रसिद्धा । सौमिके मखे= तृतीयसवने सत्रेषु नाराशंसेषु पुरोडाशशकलपिण्डदाने | तीर्थे=तत्प्राप्तौ । ब्राह्मण आयाते तत्सम्पत्तौ । "द्रव्य ब्राह्मणसम्पत्तिः" इति याज्ञवल्क्येन तत्सम्पत्तेरपि श्राद्धकालतोक्तेः । स्मृत्यन्तरमपि, वृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति । येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः ॥ इति । यत्तु सुमन्तुनोक्तम्-- न जीवरिपतृकः कुर्याच्छ्राद्धमझिमृते द्विजः । येभ्य एव पिता दद्य (त्तेभ्यः कुर्वीत साग्निकः ॥ इति जीवत्पितृकस्य श्राद्धं नास्तीति तद्वृद्धिश्राद्धेतरविषयम् । अनग्निकोऽपि कुर्वीत जन्मादौ वृद्धिकर्मणि । येभ्य एव पिता दद्यात्तानेवोद्दिश्य पार्वणम् । इतिहारीते तस्यापि वृद्धिश्राद्धोतेः । पार्वणं तद्धर्मकम् | जीवत्पि तृक इति श्राद्धे देवतात्वेनाधिकारी जीवत्पिता यस्य स इत्यर्थः । तेन संन्यस्त पतितपितृकस्य निरनेरपि श्राद्धाधिकारसिद्धिः । कचित्कर