पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

जीवत्पितृकश्राद्धे देवतानिर्णयः । येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः । इत्यविशेषविधानादिति दाक्षिणात्या | मदनरत्नादौ तु स्वमातृमाता महेभ्य एव दद्यादित्युक्तम् । तस्यायमाशयः । यत्र हि "न जीवन्तमति क्रम्य किञ्चिद्यात्" इतिवचनेन जीवदतिक्रमदोषात् श्राद्धलोपप्रसक्ति' स्तत्रैव "येभ्य एव पिता दद्यात" इत्यादिवचनैर्देवतान्तरं विधीयते । न च जीवत्पितृकेण स्वमातृमातामहादिश्राद्धकरणे जीवदतिक्रमोSस्ति, येन पितुर्मात्रादीनां देवतात्वं विधीयेत । "पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् ।" इति मातामहश्राद्धविधायकवृद्धयाज्ञवल्क्यवचनेन श्राद्ध कर्तृमातामहानामेव श्राद्धविधानाच न पितुर्मातामहानां देवतात्वम् । एवं पितामहादिषु जीवत्स्वपि द्रष्टव्यम् । मृते पितरि जीवन्मातृकः पितामह्यादिभ्यो दद्यादिति स्मृतितत्वादयः प्राच्याः । दाक्षिणात्यास्तु - पितृवर्गे मातृवर्गे तथा मातामहस्य च | जीवेत्तु यदि वर्गाद्यस्तं वर्गे तु परित्यजेत् || इति वचनात्तद्वर्गमेव त्यजेदित्याहुः । १७ अत्र "जीवे पितरि” इत्यादिवचनाज्जीवत्पितृकस्य श्राद्धविकल्पे प्राप्ते क्वचित्करणपक्षनियममाह - कात्यायनः, ब्राह्मणादिहते ताते पतिते सङ्गवर्जिते । व्युत्क्रमाच्च मृते देयं येभ्य एव ददात्यसौ ॥ इति ॥ अत्रादिपदेन चण्डालादिग्रहणम् । पतिते जीवस्यपि । सङ्गवर्जिते= प्रवजिते जीवति । अत्र पतितो महापातकी ब्राह्मणादिह तानां पृथगुपादानात् । व्युत्क्रम = पितामहादौ जीवति पित्रादिमरणे । अयमर्थः- व्युत्क्रमाच्च प्रमीतानां नैव कार्या सपिण्डता । इति वचनेन व्युत्क्रममृतस्य सपिण्डीकरणनिषेधात्तस्य पितृस्वाप्राप्तेः स जीवत्पितृकतुल्यत्वाद्येभ्यः पितामहादिभ्यो ददाति तेभ्यो दद्यादिति । वस्तुतस्तु "यस्य पिता प्रेतः स्यात्स पित्रे पिण्डं निघाय” इत्यादिविष्णुवचने पितुरपि श्राद्धविधानानेडशी व्याख्यायुक्ता, किन्तु ब्राह्मणहतादिसाहचर्यात व्युत्क्रमाच्छास्त्रमतिक्रम्यो. करभेदाहिनेति व्याख्येयम् । ३ वी० मी०