पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- पिता यस्य तु वृत्तः स्याज्जीवेच्चापि पितामहः । पितुः स नाम सङ्कीर्त्य कीर्त्तयेत्प्रपितामहम् ॥ पितामहो वा तच्छ्राद्धं भुञ्जीतेत्यब्रवीन्मनुः | कामं वा तदनुज्ञातः स्वयमेव समाचरेत् ॥ इति । प्रियमाणे=जीवति । पूर्वेषां = पितुः पित्रादीनाम् । अथ वा स्वपितरमाशयेत्=भोजयेत् । विप्रवत् = गन्धाद्यर्चनपूर्वकम् | विप्रविहित निमन्त्रणत्र ह्मचर्यादिनियमयुक्तमिति मेधातिथिः । पितामहप्रपितामहस्थाने तु ब्राह्मणान्भोजयेत् । पितुर्भोजनपक्षे न पिण्डदानम्- पितरं भोजयित्वा तु पिण्डौ निवृणुयात्परौ । इति यज्ञपार्श्वपारीशष्टाव । अनेन स्वकं पितरमादितो भोजयित्वा तदूर्ध्वे पुरुषत्रयस्य श्राद्धं कर्त्तव्यमिति हलायुधव्याख्यानं प्रशस्तम् । नामसति श्राद्धोपलक्षणार्थम् । प्रपितामहमिति वृद्धप्रपितामहस्याप्युपलक्षणम् । त्रयाणामुदकं कार्यं त्रिषु पिण्डः प्रवर्त्तते । चतुर्थः सम्प्रदातैषां पञ्चमो नोपपद्यते । (अ० श्लो०१८६) इति मनूक्ते । “यस्य पिता प्रेतः स्यात्' इत्युदाहृत विष्णुवचनाच्च । काम वेति । तदनुज्ञात तेन जीवता पित्रा पितामहेन वा । उपलक्षणमेत ज्जीवमात्रस्य | कामम्=अभिलषितं समाचरेत् । तदयमर्थः । यो जीवति तदाशाग्रहणमेब तच्छ्राद्धस्थानीयम् । तथा च पितरि जीवति पितु राक्षां गृहीत्वा पितामहप्रपितामहयोरेव श्राद्धं कुर्यात् । पितामहे जीवति पित्रे श्राद्धं दत्वा पितामहाज्ञां गृहीत्वा प्रपितामहायैव श्राद्धं दद्यादिति । एवमन्यत्र । एवं च जीवन्तमतिक्रम्य दद्याज्जीवन्तं वा भोजयेदाशां वा गृह्णीयादितिपक्षत्रयं सिद्धम् । तत्र भोजनपक्षः कलौ निषिद्धः । प्रत्यक्षमर्चनं श्राद्धे निषिद्ध मनुरब्रवीत् । इति पृथ्वीचन्द्रोदये भविष्योक्तेः । चन्द्रिकायामध्येवम् । एवं जीवन्मातामहस्य | मातामहानामप्येवं श्राद्धं कुर्याद्विचक्षणः | इति जीवििपतृकश्राद्धोकक्रमातिदेशकविष्णुवचनात् । पितरि जीवति स्वमातरि मातामहे च मृते पितुः पितृभ्य इव पितुरेव मातृमातामहूयोर्दातव्यम् ।