पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

जीवत्पितृकश्राद्धे देवतानिर्णयः । मनुः -- (अ०९श्लो०१३२) दौहित्रो ह्यखिलं रिक्थमपुत्रस्य पितुर्हरेत् । स एव दद्याद् द्वौ पिण्डौ पित्रे मातामहाय च ॥ लौगाक्षिरपि -- श्राद्ध मातामहानां च अवश्यं धनहारिणा | दौहित्रेण विधिशेन कर्तव्य विधिवत्सदा || इत्याहुः । पुत्रिकापुत्रश्चाधिकारिनिर्णये वक्ष्यते । इति प्रकृतिपार्षणे देवता । एवं विकृतावपि विशेषवचनाभावे बोध्यम् । अथ जीवस्पितृकश्राद्धे देवता निर्णयः । विष्णु:-- पितरि जीवति यः श्राद्धं कुर्याद्यस्य पिता प्रेतः स्यात्स पित्रे पिण्डं निधाय पितामहात्पराभ्यां द्वाभ्यां दद्यात् । यस्य पिता पितामहश्च प्रेतौ स्यातां स ताभ्यां पिण्डं दत्वा पितामहपितामहाय दद्यात् | यस्य पितामहः प्रेतः स्यात्स तस्मै पिण्ड निधाय प्रपिताम हात्परं द्वाभ्यां दद्यात् । यस्य पिता प्रपितामहश्च प्रेतौ स्यातां स ताभ्यां पिण्डौ दत्त्वा पितामहप्रपितामहाय दद्यादिति । कात्यायनः, १५ पितरि जीवति पितर्येव जीवतीत्यर्थः । एवमुत्तरत्र 'यः श्राद्धं कुर्यात्' इति यच्छन्दादकरणपक्षोऽपि सूचितः । यथा च- सपितुः पितृकृत्येषु अधिकारो न विद्यते । पितुः पितृभ्यो वा दद्यात्सपितेत्यपरा श्रुतिः ॥ इति । हारीतोऽपि -- जीवे पितरि वै पुत्रः श्राद्धकालं विवर्जयेत् । येषां वापि पिता दद्यात्तेषामेके प्रचक्षते ॥ इति । अन्तर्हितेभ्योऽनन्तर्हितेभ्यो वा प्रेतेभ्यस्त्रिभ्यः क्रमेण श्राद्धं कार्यमिति विष्णुवचनसमुदायार्थः । मतान्तरमाह- मनुः, -- ( अ० ३ ३लो० २२०/२२१/२२२ ) श्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् । विप्रवद्वापि तं श्राद्धे स्वकं पितरमाशयेत् ॥