पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४ वीरमित्रोदयस्य श्राद्धप्रकाशे- रिक्तपार्वणेषु षट्दैवत्यता सिध्यति । अत एव मात्स्ये पिण्डान्वहार्यकं प्रक्रम्य - षट् च तस्माद्धविःशेषात्पिण्डान्त्वा तथोदकम् । इत्युक्तम् । विष्णुपुराणेऽपि - पितृमातामहानां च भोजयेच्चाप्युदङ्मुखान् । इति । बहुवचनं प्रभृत्यर्थम् | पितॄणां मातामहानां चेत्यर्थः । तथा देवलः-- एकेनापि हि विप्रेण षट्पिण्डं श्राद्धमाचरेत् । षडयन्दापयेत्तत्र षड्भ्यो दद्यात्तथाशनम् ॥ इति । येषां तु गृह्येऽपि पित्रादित्रिदैवत्यमेव श्राद्धं विहित तैरपि माता- महश्राद्धं कर्त्तव्यमेव । } पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् । अविशेषेण कर्त्तव्यं विशेषान्नरकं व्रजेत् ॥ इत्यकरणे धौम्यादिस्मृतौ दोषाभिधानात् । केचित्तु - बाहुल्यं वा स्वगृह्योक्तं यस्य यावत्प्रचोदितम् । तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवेत् ॥ इति छन्दोगपरिशिष्टवचनान्तैरपि पित्रादित्रयस्यैव श्राद्धं कार्यम् । धौम्यवाक्यं तु यच्छाखीयगृह्ये मातामहश्राद्धमुक्तं तद्गृयैकवाक्यतया तच्छाखीयपरमित्याहुः । तन्न | तथा सति धौम्यवाक्यस्यानुवादमात्र- त्वेनानर्थक्यापत्तेः । वस्तुतस्तु तस्य तावतीत्युत्तरार्द्ध तावन्मात्रकर णम्यानुकल्पत्वं स्वरसतः प्रतीयते सर्वकरणस्य तु मुख्यत्वं तदपि चन सर्वशाखोक्त पदार्थानुष्ठानेन तेषां तच्छाखीयं प्रत्येव प्रवृत्तेः । किन्तु शाखाविशेषमनधिकृत्य प्रवृत्तपुराणस्मृत्याद्युक्त पदार्थानुष्ठानेन, तेन मातामहश्राद्धमपीत रसाधारणपदार्थवत्साधारणमित्युपसंहर्त्तव्यम् । अन्ये तु मातामहश्राद्धं पुत्रिकापुत्रस्य धनप्राहिणो वा दौहित्रस्यावश्यकं नान्येषाम् । तथा च - बौधायनः, पुत्रिकायां न यो जातो यो वा रिक्थं न विन्दति । न कुर्यादथवा कुर्याम्मातामहपुरः सरम् ॥ इति, यमः- कुर्यान्मातामहश्राद्धं नियमात्पुत्रिकासुतः । इति,