पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पार्वणश्राद्धे देवतानिर्णयः । एषां प्रेताः स्युः" इत्यादिकल्पसूत्रादिभ्यश्च जनकादीनां देवतात्वावगमात् स्मृतिपुराणादा वस्वादिपदप्रयोगस्तद्रूपतया ध्यानार्थः । तथा च पैठीनसिः- य एवं विद्वान्पितॄन्यजत इति । एवं =चस्वादिरूपतया । गोत्रनामभिरामन्त्र्य पितॄनर्च्यं प्रदापयेत् । इति, ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् । इति, यस्य पिता प्रेतः स्यात्सपित्रे पिण्डं निधाय पितामहात्परं द्वाभ्यां दद्यात् । इति छन्दोगपरिशिष्ट- मनु - विष्णुस्मृतिषु पितॄणां नामगोत्रादिभिरामन्त्रणादिविधानाद्वसुरुद्रादीनां च तदभावाज्जनकादीनामेव देवतात्वम् । केचित्तु यस्य पित्रादयस्त्रयोऽपि जीवन्ति पातित्यादिना श्राद्धानर्हा वा तत्कर्त्तृकतीर्थश्राद्धादौ देवता याज्ञवल्क्यादिवचनैर्विधीयन्त इत्याहुः । अथ पार्वणश्राद्धे देवतानिर्णयः । तत्र छन्दोगपरिशिष्टम् - कर्षसमन्वितं मुक्त्वा तथाद्यं श्राद्धषोडशम् । प्रत्याब्दिकं च शेषेषु पिण्डाः स्युः षडिति स्थितिः ॥ इति । कर्पूसमन्वितम् = अन्वष्टकाश्राद्धम् । कर्पूः खनेदिति गोभिलेन तत्र कषूविधानात् । कर्पूर्गर्ताः ॥ कषूसमन्वित सपिण्डीकरणम् । तत्रापि तत्सत्त्वादिति हेमाद्रिः । तदयुक्तम् । श्राद्ध- षोडशमित्यनेनैव तत्प्राप्तेः । यद्यपि च स्मृत्यन्तरे सपिण्डकिरणस्य षोडशश्राद्धेभ्यो भेदः स्मर्यते तथापि छन्दोगपरिशिष्टवाक्ये न तद्भेद । द्वादश प्रतिमास्यानि आद्यषापमासिके तथा । सपिण्डीकरणं चेति प्रेतश्राद्धानि षोडश ॥ इतिछन्दोगपरिशिष्ट एव सपिण्डीकरणस्य षोडशश्राद्धान्तर्भावाभिधानात् । अयषाण्मासिके इत्यत्रैकादशाहे क्रियमाण श्राद्धमाद्यशब्दार्थः । आयं श्राद्धषोडशमित्यत्र षोडशश्राद्धविशेषणमाद्यमिति । तेषां चाद्यत्वं सकलपार्वणेभ्य आदावनुष्ठेयत्वादिति परिशिष्टप्रकाशः । तथा च भाद्धषोडशमिति हेमाद्रौ पाठः । सर्वथान्वष्टकादिव्यति