पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- पितृपिण्डश्च विज्ञेयः प्रद्युम्नश्चापराजितः । आत्माऽनिरुद्ध विशेयः पिण्ड निर्वपणे बुधैः ॥ आत्मा श्राद्धकर्त्ता । हेमाद्रौ स्मृतिः - प्रथमो वरुणो ज्ञेयः प्राजापत्यस्तथापरः । तृतीयोऽग्निः स्मृतः पिण्ड एष पिण्डविधिः स्मृतः ॥ अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः । न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः यस्मादुत्पत्तिरेतेषां सर्वेषामण्यशेषतः । ये च यैरुपचर्य्याः स्युर्नियमैस्तान्निबोधत ॥ मनोर्हिरण्यगर्भस्य ये मरीच्यादयः सुताः | तेषामृषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः ॥ विराट्सुताः सोमषदः साध्यानां पितरः स्मृताः । अग्निष्वात्ताच देवानां मरीच्या लोकविश्रुताः ॥ दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् । सुपर्णकिन्नराणां च स्मृता बर्हिषदोऽत्रिजाः । सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः || वैश्यानामाज्यपा नाम शुद्राणां तु सुकालिनः । सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरः सुताः । पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः ॥ इति । पूर्वदेवताः अनादिदेवताः । हिरण्यगर्भस्य तदपत्यस्य | मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदमेवच ॥ ( अ० १ ३लो० ३५ ) इत्यनेन मनुना पूर्वमुक्ताः । विराट्सुता: हिरण्यगर्भपुत्रस्य मनुपितुर्विराजः सुताः । सोमषद सोमषन्नामानः । एते साध्यानां देवविशेषाणां पितरो भवन्ति । अग्निष्वाता एतन्नामान: मरीच्या मरीचि पुत्रा देवानां पितर इत्यनुषङ्गः । एवमग्रेऽपि । श्राद्धप्रकरण एतेषा- मुस्पस्यादि कथन मेतज्ज्ञानस्यापि श्रद्धाङ्गत्वज्ञापनार्थे शेयम् | तस्मात्कथं जनकादीनां देवतात्वमितिचेत्, अत्रोच्यते । "असावेतत्त इति यजमानस्य पित्रेऽसावेतत्त इति पितामहावासावेतत्त इति प्रपिता- महाय" इत्यादिश्रुतेः "एतन्तेऽसौ ये व स्वामत्रान्विति तस्मै तस्मै य 1