पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वस्वादीनां देवतात्वविचारः । मातृपदस्य जनन्यामेव शक्तेः, “एका चेत्पुत्रिणी" इत्यस्य च जातुकर्ण्यवचनैकवाक्यतयाऽपुत्रविमातृविषयत्वात्सपुत्रायास्तस्याः प्रापकवाक्याभावेन न कुत्रापि श्राद्धप्रसतिरस्तीत्याह । वस्तुतस्तु "एका चेत्" इतिवचनस्यापि - अपुत्रा ये मृताः केचित्स्त्रियो वा पुरुषाश्च ये । तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम् ॥ इत्यापस्तम्बवचनेनापुत्राणामपि तासां पार्वणनिषेधान्न पार्वणविषयत्वं किन्तु आवश्यकसांवत्सरिकश्राद्धादिविषयत्वम् । पुन्नामकनरकत्राणरूपफलप्रतिपादनार्थत्वं चेति सर्वमनवद्यम् । अथ वस्वादीनां देवतात्वविचारः । ननु न जनकादीनां श्राद्धे देवतात्वं किन्तु वसुरुद्रादित्यादीनां पित्रादिपदोपनीतानाम् । यथाह मनुः, वसुन्वदन्ति हि पितॄन् रुद्रांश्चैव पितामहान् । प्रपितामहांस्तथादित्यान् श्रुतिरेषा सनातनी ॥ इति । याज्ञवल्क्यः ( अ० १ श्रा०प्र० श्लो०२६९ ) वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । प्रीणयान्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः ॥ हेमाद्रौ नन्दिपुराणे - अग्निष्वात्ता ब्राह्मणानां पितरः परिकीर्त्तिताः । राज्ञां बर्हिषदो नाम विशां काव्याः प्रकीर्तिताः ॥ सुकालिनस्तु शूद्राणां व्यामा म्लेच्छान्त्यजादिषु । तथा - विष्णुः पितास्य जगतो दिव्यो यज्ञः स एव च । ब्रह्मा पितामहो ज्ञेयो ह्यहं च प्रपितामहः ॥ अहं = रुद्रः । महाभारते विष्णुवाक्यम् - पिता पितामहश्चैव तथैव प्रपितामहः | अहमेवात्र विशेयस्त्रिषु पिण्डेषु संस्थितः || विष्णुधर्मोत्तरे- पितुः पैतामहः पिण्डो वासुदेवः प्रकीर्तितः । पैतामहम्य निर्दिष्टस्तथा सङ्कर्षणः प्रभुः ॥