पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- हेमाद्विंप्रभृतयो दाक्षिणात्यास्तु “न योषिद्भ्यः पृथक् दद्यात्" इत्यत्र पृथग्दानस्य लोकतोऽप्राप्तेर्निषेधे च विकल्पापत्तन पृथग्दद्यादीत निषेधायोगादपृथग्दद्यादेकस्यामेव श्राद्धव्यक्तौ पितॄन् तद्योषितश्च देवतात्वेनोद्दिशेदिति विधीयते । अतश्च सपत्नीकानां देवतात्वसिद्धिः । यद्यपि च पतिना सहेति तृतीयाबलात्पत्युरुपसर्जनत्वं प्रतीयते तथापि बहुभिः प्रमाणैः पत्न्या एवोपसर्जनत्वप्रततिस्तन्नात्र विवक्षितमित्याहुः । एवं चास्मत्पितर्यशदत्तशर्मन् अमुकगोत्र स पत्नीकेत्यादि प्रयोगवाक्यमनुसन्धेयम् । वस्तुतस्तु - सम्बन्धनामगोत्राणि यथावत्परिकर्तियेत् । इति, नामगोत्रं पितॄणां हि प्रापकं इव्यकव्ययोः । इत्यादिवचनैस्तरपत्नीनामपि गोत्रादि कीर्त्तनीयमेव । तथा चास्मत्पितयज्ञदत्त शर्मन् अमुकगोत्रया सावित्रीनामिकया सहितैः तत्तुभ्यमित्यादि प्रयोगोऽनुसन्धेयः । एवं च बहुपत्नीकस्याप्यस्मि पक्षे अमुकामुकनामिकाभिः सहितैतत्तुभ्यमित्यादिप्रयोगोऽपि ज्ञेयः । "तृप्तिरासाम्” इत्यनेन सर्वासामेव भोगश्रवणात् । न च "माता भुङ्क्ते" इत्यनेन जनन्या एव भोगोऽभिधीयते न सर्वासामिति वाव्यम् । १० (१) बह्वीनामेकपत्नीनामेका चेत्पुत्रिणी भवेत् । सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः ॥ (अ०हश्लो०१८३) इति मनुवचनेन सपत्नीपुत्रेण सपत्न्यन्तरस्य पुत्रवतीत्वातिदेशे सिद्धे मातृकार्यातिदेशफलकस्य मातृत्वातिदेशस्याप्यर्थात्सिद्धौ पुत्रदत्ते पितृपिण्डे जनन्या इव विमातुर्भोगसिद्धेः । न चैतस्य वचनस्य -- पितृव्यभ्रातृमातॄणामपुत्राणां तथैव च । मातामहस्यापुत्रस्य श्राद्धादि पितृवद्भवेत् || इति हेमाद्रिधृतजतूकर्ण्यवचनैकवाक्यतयाऽपुत्रविमातर्येव पुत्रवतीत्वातिदेशविध्यर्थकत्वमिति वाच्यम् | "सर्वाः पितृपत्न्यो मातर" इति सुमन्तुवाकये सर्वपदेन सपुत्राया अपि मातृत्वातिदेशाज्जननी वच्छ्राद्धसिद्धेरिति बहवः | अन्वष्टकायां सपत्नमातुरपि श्राद्धमभि- दधानो नारायणवृत्तिकारोऽप्येवम् । हेमाद्रिस्तु सुमन्तुवाक्यस्य विवा हप्रकरणस्थत्वेन तत्रैव सापिण्ड्यविधानार्थत्वात् "माता भुङ्क्ते" इत्यत्र ( १ ) अत्र बहोनामित्यस्य स्थाने सर्वासामित्यपि पाठः" । [1] I