पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पित्रादीनां प्रत्येकं देवतात्वनिर्णयः । शेषणस्य च साहित्यस्याविवक्षितत्वात् इति बहवः । विश्वेषां देवानां तु मिलितानामेव देवतात्वमुक्त वचनात् । एतद्वो अन्नमित्युक्त्वा विश्वान्देवांश्च संयजेत् । इति ब्रह्मपुराणाश्च तथैव प्रतीतेरिति । तदपि देवतात्वं न सपत्नीकानाम् । पित्रे पितामहाय प्रपितामहायेत्यादिदेवताविधिषु तदश्रवणात् निरपेक्ष श्रुतिबाघप्रसङ्गाच्च । न च- सपिण्डीकरणादूर्ध्वं यत्पितृभ्यः प्रदीयते । सर्वत्रांशहरा माता इति धर्मेषु निश्चयः ॥ इति शातातपवचने मातुरंशहरत्वोक्तेस्तस्या अपि देवतात्वमिति वाच्यम् । अत्र हि यजमानेन पित्रुद्देशेन त्यक्तं यद्रव्यं तदंशहरत्वं मा तुः प्रतिपाद्यते नतु यजमानद्रव्यांशहरत्वम् । तेन यजमानेन पित्रुहेशेन त्यक्तस्य द्रव्यांशस्यांशं कामं माता पितुः सकाशाद् गृह्णातु न त्वेतावता याजमाने द्रव्यत्यागे तस्या देवतात्वसिद्धिः । अत एव त्रयस्त्रिंशतामग्निमुद्दिश्य त्यक्तेन द्रव्येण माद्यतामपि न देवतात्वमि- त्युक्तम्- "त्रिंशच्च परार्थत्वात्" (अ० ३ पा० २ अधि० १५ सु० ३६) इत्यत्र | नव- अन्वष्टकासु वृद्धौ च गयायां च क्षयेऽहनि । मातुः श्राद्धं पृथक्कुर्यादन्यत्र पतिना सह || इति शातातपेन पतिना सहेत्यभिधानारसपत्नीकाना देवतात्वमिति वाच्यम् । तथा सति "सहयुक्तेऽप्रधाने" (२|३|१९) इति अप्रधान. विहिततृतीयया प्रत्युत्तरप्राधान्यापत्तेः सभर्तृके मातरित्यादिप्रयो गप्रसङ्गात् । नचैतदिष्टम् । वचनं तु - स्वेन भर्त्रा सह श्राद्धं माता भुङ्के स्वधामयम् । पितामही च स्वेनैव तथैव प्रपितामही || इति भोग एव मातुः पितृसहभावबोधकबृहस्पतिवचनैकवाक्य तथा भोगे साहित्यमात्रपरं व्याख्येयम् । मातुरितिसम्बन्धसामान्या भिधायिन्याः षष्ठया भोगत्वरूपसम्बन्धविशेषपरतयोपपत्तेरिति । न योषिद्स्य पृथक् दद्यादवसानदिनाहते | स्वभर्तृपिण्डमात्राभ्यस्तृतिरासां यतः स्मृता ॥ इति छन्दोगपरिशिष्टेन केवलभर्तृसम्बन्धिपिण्डभागस्यैव पत्नीतृ प्तिहेतुत्वेनाभिधानाच्च न सपत्नीकानां देवतात्वमिति कल्पतरुप्रभृतयः । २ वी० मी०