पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वरिमित्रोदयस्य श्राद्धमकाशे- अथ श्राद्धस्य यागदानरूपताविचारः । तत्र “य एवं विद्वान्पितॄन्यजते” इति यजिप्रयोगदर्शनाद्यागल. क्षणसत्वाच्च यागरूपता । न च "पितृभ्यो दद्यात्" इतिप्रयोगदर्शनाहानरूपताव्यस्येति शूलपाण्युक्तं युक्तम् । श्राद्धस्य परस्वत्वजनकत्वा भावेन तल्लक्षणानाक्रान्तत्वात् । तथाहि । न तावत्तस्य पित्रादिस्वत्वोत्पादकत्वम् । तेषां ममेदमितिस्वीकारासम्भवात् । पित्रादीनां भोक्तृत्वोक्तिस्तु शूलपाणेर्देवताधिकरणविरुद्धैव । वेदान्तमतरीत्या पित्रादीनां भोक्तृत्व स्वीकारेऽपि "नह वै देवा अइनन्ति न पिवन्ति एतदेवामृतं दृष्ट्वा तृप्यन्ति' इत्यादिपर्यालोचनया स्वत्वस्वीकार स्त्वप्रमाणक एव । कथमन्यथा वेदान्तमते यागदानयोर्भेदः । नापि ब्राह्मणस्वत्वोत्पादकत्वं श्राद्धस्य । तेषामनुद्देश्यत्वात् । ब्राह्मणस्वत्वं तु त्यक्तद्रव्यप्रतिपत्त्या परमुत्पद्यतां यथा देवोद्देशेन त्यताहिरण्यादेः ब्राह्मणे प्रतिपादनादेव ब्राह्मणस्वत्वं न तु देवोद्देश्यकत्यागात् । ददातिप्रयोगस्तु लाक्षणिको व्याख्येयः । अन्ये तु "पितृवदुपवेश्य" इत्याश्वलायनसूत्रेण ब्राह्मणे पित्रभेदबुद्धेरपि श्राद्धाङ्गत्व प्रतिपादनातिप तुरुद्देश्यकत्यागेनापि ब्राह्मणगत स्वत्वोत्पत्तेः सुवचत्वात् ददातिर- पि मुख्य एव । अतश्च यागदानरूपतेत्याहुः । अथ पित्रादीना प्रत्येकं देवतात्वनिर्णयः । तत्र तावत् "असावेतत्त इति यजमानस्य पित्रे, असावेतत्त इति पितामहायासावेतत्त इति प्रपितामहाय" इति श्रुत्या, "नमो विश्वेभ्यो देवेभ्य इत्यन्नमादौ प्राङ्मुखयोर्निवेद्य पित्रे पितामहाय प्रपितामहाय नामगोत्राभ्यामुदङ्मुखेषु" इत्यादिस्मृत्या च प्रत्येकं देवतात्वावगतेः "अथ श्राद्धममावास्यायां पितृभ्यो दद्यात्" इति गौतमोक्तेः "पितृभ्यो दद्याद्राह्मणान् सन्निपात्य" इतिवसिष्ठोकेश्च सहितानां तदवगतेस्तु ल्यबलत्वाद्विकल्प इति केचित | वस्तुतस्तु प्रत्येकमेव देवतात्वमुतवचनात् नव्यासक्तम् ) "पितृभ्यो दद्यात् इत्यस्य पित्रादीनां प्रत्ये कं क्रियान्वयेऽपि 'गर्गा भोज्यन्तां' 'ऋत्विग्भ्यो दक्षिणां ददाति' इ त्यादिवदुपपत्तेः । न च गर्गादर्दानामुद्देश्यत्वात्तद्गत साहित्यविवक्षा भावेन युक्तः प्रत्येकं क्रियान्वयः | प्रकृते तु देवताया उपादेयत्वात्सा- हित्यं विवक्षितमेवेतिवाच्यम् । 'पितृभ्यो दद्यात्' इत्यत्र पितृपदे देव्रताविधायित्वस्य तवाप्यसम्मतत्वेन तस्यानुवादत्वात् । अनुवाद्यवि-