पृष्ठम्:SukavihRdayAnandinI.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

73

लगुक्रियायां ये अंकास्तेषां सन्दोहस्तस्मिन्विमिश्रिते पीडीकृते संख्या भवेत्‌ । इयं तावद्वारणं” स्यात्‌ । तथा एकश्चत्वारः षट्चत्वारः एकमेषामेकीकृता वै षोडश भवन्ति चतुरक्षरजातौ प्रस्तार्यमाणायां षोडश वृत्तानि भवन्तीत्यर्थः । स च प्रस्तारः” पूर्वमेव व्याख्यातः ।

पक्षान्तरमाह ।

उदिष्टस्य वृत्तस्य उपरि ये अंका द्विगुणास्तेषां समाहारः एकीभावः सैको वा अथवा जनयेदुत्पादयेदिमां संख्याम्‌ । यथा । चतुरक्षरजातौ द्विगुणा ये अंका उपर्यारोपितास्तेषां समाहारः पचदश सैकः षोडशेति । ८

अध्वार्थमाह ।

संख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः ।

वृत्तस्यांगुलिर्की”" व्यातिमधः कुर्यात्तथांगुलम्‌ ॥ ९

चतुरक्षरजातौ या षोडशसंख्या स्यादद्विगुणा दात्रिंशतिः एकोना एकरहिता एकत्रिंशतिः सद्विः पण्डितैरध्वा मार्गः प्रकीर्तितः । कथम्‌ । वृत्तस्य आंगुलिकीं अंगुलप्रमाणां व्यातं कुर्यात्‌ । ९

अधुना पुनरपि कविरन्वयपूर्वकं पित्रा सह सात्मानं निर्दिशति । वंशेऽभूत्कश्यपस्य प्रकटगुणगणः शैवसिद्धान्तवेत्ता ।

विघ्रः पव्येकनामा विमलतरमतिः शैवतत्वावबोधे ॥ १० केदारस्तस्य सूनः शिवचरणयुगाराधनैकाग्रचित्तः । छंदस्तेनाभिरामं प्रविरचितमिदं ““ वृत्तरत्राकराख्याम्‌ ॥ ११

वंशेऽन्वयेऽभूज्जातः कश्यपस्य कश्यं सोमं पिबतीति कश्यपः कश्यपशब्देन यद्यपि सुरा एवाभिधीयते कथ्यते । तथाप्यत्र सोममुच्यते सुरापानस्य ब्राह्मणे दिजे निषिद्धत्वात्‌


० पाठे नास्ति । टीकैवास्ति ।

2» पाठे तावद्धारेणं ।

29 पाठे प्रस्तार ।

2" पाठे प्रवृत्तस्यांगुलिकीं ।

2० पाठे छदस्तेनाभिरामप्रविरचतिमिदं । 2९ पाठे देवाभ्भिधीयते ।

~ पाठे सुरपानस्य ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/७३&oldid=371639" इत्यस्माद् प्रतिप्राप्तम्