पृष्ठम्:SukavihRdayAnandinI.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

74

अन्वयार्थेन वंशार्थन क्रनुयायित्वमुक्तं स्यात्‌ (१) । शिवस्य एते शैवा ये सिद्धान्तास्तेषां वेत्ता । "विद-विचारणे' इत्येतस्य रूपं न पुनः “विद-जाने' । तस्याशक्यत्वात्‌” । यो हि विचारयति चिन्तयति सो अवश्यं वेत्ति नह्यविदितं विचारयितुं" शक्नोति विशेषेण प्रतिपूरयति स्वर्गोपवर्गादिकानि स विप्रः विमलतरमतिः विमला विस्तीर्णा तरला मनोहरा मतिर्यस्य अतिशयेन विमलमति: । क्व । शैवशास््रावबोधे । केदारनामा तस्य पुत्रः शिवः शान्तो देवताविशेषः" तस्याराधनं तत्र एकाग्रं तन्निष्ठं चित्तं यस्य सः । तथा तेन केदारेणाभिरामं रमणीयं मनोहरं छंदः प्रकर्षेण विरचितं वृत्तरत्राकराख्याम्‌ ॥ १०-११

इति पंडितश्रीसुल्हणविरचितायां सुकविहृदयानन्दिन्यभ्िधानायां छदोवृत्तौ षट्प्रत्ययाध्यायः षष्ठः समाप्तः ॥

शुभं भूयाल्तेखकस्यः” । वसुयुग्मे [त “शुक्लश्च पचम्यां हसराजेन मुनिनाऽलिखद्रीका मनोरमा ॥


"^ पाठे अन्वयार्थनवंशार्थेनक्रनुयायित्वमुक्तं स्यात्‌ । ^ पाठे पुन ।

26 पाठे तस्यसेहत्वात्‌ ।

2 पाठे विचारययुं ।

2 पाठे देवताविशेष ।

°" पाठे शुभं भूयाल्लेषकस्ये | 2" आल्तर्मी

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/७४&oldid=371640" इत्यस्माद् प्रतिप्राप्तम्