पृष्ठम्:SukavihRdayAnandinI.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

69

पीनोच्चपयोधरद्रया जनयति मुदमधिकतरां वनितेयम्‌ ॥ १९ ॥ उपस्थितप्रचुपितप्रकरणम्‌ ॥

विषमाक्षरपादं वा पादैरसमं दशधर्मवत्‌ । यच्छंदो नोक्तमव्र गाथेति तत्सूरिभिः प्रोक्तम्‌ ॥ १२

विषमाक्षराणि येषु ते पादा यस्मिन्‌ विषमाक्षरपादं यदेवमेव अष्टौ दशसप्तनवाक्षरं वा सर्वपादैरसमं त्रिपाद षट्पादं वा दशधर्मवत्‌ । यथा ।

दश धर्म न जानन्ति धृतिराष्ट निबोध तान्‌ ।

मत्तः प्रमत्त उन्मत्तश्श्रातः क्रदो बुभुक्षितः ।

त्वरमाणश भीरुश्च लुब्धः कामी च ते दशः ॥ ~“ इति षट्पदी गाथा ।

इत्येवमादि अस्मिन्‌“ च्छदस्यर्थे नोक्तं प्रयोगेषु दृश्यते तद्राथेति विद्रद्धिरुक्तम्‌ । मंगलगीतिकावेष्टकविपद्िध्ुवकचच्चरीपाद्वतिकाद्विपथकप्रभृति तत्सर्वं गाथासंज्ञमवगन्तव्यम्‌ । छंदसामानंत्यात्प्रतिपदमभिधातुमशक्यं तत्सर्वसंग्रहणीयं एका संजा कृतेति । १२

डति सुल्हणविरचितायां सुकविहृदयानन्दिन्यभिधानायां वृत्तरत्राकरच्छदोवत्तौ विषमवृत्ताध्यायः पंचमः ॥


24 महाभारत ५.३३.८२-८३ 24 पाठे इत्येवमादि यस्मिन्‌ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/६९&oldid=371635" इत्यस्माद् प्रतिप्राप्तम्