पृष्ठम्:SukavihRdayAnandinI.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

70

षष्ठोऽध्यायः षट्प्रत्ययाध्यायः

प्रस्तारो नष्टमुदिष्टमेकद्व्यादिलगुक्रिया । संख्या चैवाध्वयोगश्च षडेते प्रत्ययाः स्मृताः ॥ १“

इदानीं उक्तानां वृत्तानां षट्‌प्रत्ययानाह ।

पादे सर्वगुरावादयाल्लघुं न्यस्य गुरोरधः । यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम्‌ ॥ २ ऊने ददयाद्ररुण्येवं यावत्सर्वलघुर्भवेत्‌ । प्रस्तारोऽयं समाख्यातः छंदोविचितिवेदिभिः ॥ 3

पादे सर्वगुरौ यावतां वर्णानां वृत्तस्य पादस्तावंत एव गुरवो विलिख्यन्ते । यथा । चतुरक्षरच्छदसि आदयद्ररोरधः अधोविभागे लघुं वर्णं न्यस्य स्थापयित्वा तदनंतरं न्यस्तलघोः सकाशात्‌ शेषेभ्यो वर्णेभ्यो अधः कि स्थाप्यत इत्याह । यथोपरि तथा शेषं । यदुपरि गुरुस्तदा अधस्तादपि गुरु्ययुपरि लघुस्तदा अधस्तादपि लघुः शेषम्‌ । उपरि तुल्यो दीयते इत्यर्थः । तेन लघोरनंतरं त्रीणि गुरूणी स्थाप्यन्ते । भूयः पुनरपि कुर्यादमुं विधिमिति । लघुं न्यस्य गुरोरधः यथोपरि तथा शेषमिति पुनरप्यमुं विधिं कुर्यात्‌ । यदा उपरि गुरुर्भवति लघुं न्यस्य गुरोरध इति विधेरभावायः पूर्वदेशादूनै ददयाद्ररूुणि इति ऊनप्रदेशो गुरुभिः पूर्यत इत्यर्थः । एवमनेन प्रकारेण तावन्न्यासः कर्तव्यो यावत्सर्वलघुः पदो भवति । प्रस्तार्यते इति प्रस्तारः वर्णानां विन्यासविशेषः । एवं चतुरक्षरपादे षोडशवृत्तानि भवन्ति । छदांसि विलीयन्ते अस्यामिति छंदोविचितिश्छदःशास््रम्‌ । प्रस्तारो व्याख्यातः । २-३

इदानीं नष्टं व्याख्यातुमाह । नष्टस्य यो भवेदकः तस्यार्धऽर्ध समे च लः | विषमे चैकमाधाय तदर्धऽर्धं गुरुर्भवेत्‌ ॥ ४


०4 टीकायां विवरणं नास्ति । >° पाठे षोडशवृत्यानि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/७०&oldid=371636" इत्यस्माद् प्रतिप्राप्तम्