पृष्ठम्:SukavihRdayAnandinI.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

67

भगणनगणजगणतघुगुरवस्तैर्युता । चतुर्थ चरणे सगणजगणसगणा जगणो गुरुश्च यत्र सा उद्रता नाम । एकत इति । प्रथमं द्वितीयेन सहाविलंबितं पठेदित्यर्थः । यथा । जितमत्सरा सुकृतिनोऽपि“ परिहतकलंकबांधवाः |

वीक्ष्य सपदि युवतिं विकृतिं नियतं प्रयाति विपुलोद्रतास्तनुः ॥ ६

चरणत्रयं भजति लक्ष्म यदि सकलमुद्रतागतम्‌ ।

नौ भगौ भवति सौरभकं चरणे यदीह भवतस्तृतीयके ॥ ७ यदुद्रतायास्तृतीये पादे रगणनगणभगणगुरवौ भवन्ति तदा सरौरभकं नाम वृत्तं भवेत्‌ । यथा |

मलयानिलः प्रियवियुक्तयुवतिजनतावियत्यतः | मंदमंदमयमेतितरां घनसारसौरभकमुद्रमन्निव ॥ ७

नयुगं सकारयुगलं च भवति चरणे तृतीयके । तदुदितमुरुमतिभिर्ववितं- यदि शेषमस्य खलु पूर्वतुल्यकम्‌ ॥ ८ यदुद्रतायास्तृतीये चरणे दौ नगणौ दौ सगणौ च भवतः तदा ललितं नाम । शेषमुद्रतावत्‌ । यथा । ललितागहाररमणीयमभिनवलतितं समासलम्‌ । इयमतिनयति मुदा प्रमत्ता पुरतो वयस्य तव लास्यमुत्तमम्‌ ॥ ८

॥ उद्रताप्रकरणम्‌ ॥

म्सौ ज्भौ गौ प्रथमाङध्चिरेकतः पृथगन्यत्‌ त्रितयं सनजरगास्तथा ननौ सः | त्रिनपरिकलितजयौ प्रचुपितमितमुदितमुपस्थितपूर्वम्‌ ॥ ९

यस्य प्रथमे पादे मगणसगणजगणभगणा दरौ गुरू एकतः । पृथक्‌ अन्यत्त्ितयं पाटत्रितयं कथमित्यर्थः । द्वितीये पादे सगणनगणजगणरगणा गुरुश्च तथा तृतीये पादे


>^ पाठे सुकृतनोपि । >> पाठे तदुदितमुरमुरमितिभिर्लनितं । 2 कछदोभङ्गः दृश्यते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/६७&oldid=371633" इत्यस्माद् प्रतिप्राप्तम्