पृष्ठम्:SukavihRdayAnandinI.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथोक्तः । अन्ते गुरुद्रयोपादनादत्र शेषाणां लघुत्वमस्यानुज्ञानं केदारेणेति मन्यामहे । यथा |

ध्रुवमिह वनितानां

हृदि विनिहितदयितगुणानाम्‌ ।

प्रसरति मलयमरुति विरहवतीनां

स्मरसुहदि विजयिनि भवति नियतमसुविनाशः ॥

दविगुरूणि छदसि आपीडेति त्रयाणां गुरूणां अप्रवेशच्छर्गण्ड इति नाम नोक्तम्‌ । इदमपि पूर्ववच्चतुर्विंशतिप्रस्तारो भवति । तेभ्यश्चतर्विंशतिभ््यस््रीनवकृष्य समान्यभ्िधातुमाह । २

प्रथममितरचरणसमुत्थं

श्रयति जगति लक्ष्म ।

इतरदितरचरणजनितमपि च तुर्यं ““ चरणयुगकमविकृतमपरमिह कलिका सा ॥ 3

आपीडस्य प्रथमं तुर्यं चतुर्थं इतरचरणसमुत्थं द्वितीयपादं द्वादशाक्षरोपलक्षितं लक्ष्म श्रयति भजति । कोऽर्थः | प्रथमपदे दवादशाक्षरः । द्वितीयोऽष्टाक्षरः । अपरमपि चरणयुगलमविकृतमप्रत्ययाभावमित्येवलक्षणा कलिका नाम । मञ्जरीति वक्तव्ये छदोभगभयात्‌ कलिकेत्युक्तमेकार्थत्वान्न दोषः । यथा ।

अधमजनसुहदि कलिकाले

सुजनकृतविरोधे ।

सकलुषमुषि सपदि विधुवनायाः तदनु विमनमनसि मुदमिह जनयति निवासा ॥ 3

दविगुरुयुतसकलचरणांता

मुखचरणरचितमनुभवति तृतीयः ।

चरण इह हि लक्ष्म"

प्रकृतमपरमखिलमपि यदि भवति लवली सा । ४


2 कछंटोभङ्गः लक्ष्यते । 21 पाठे चरण इह लक्ष्म ।

65

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/६५&oldid=371631" इत्यस्माद् प्रतिप्राप्तम्