पृष्ठम्:SukavihRdayAnandinI.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

64

पञ्चमोऽध्यायः विषमवृत्ताध्यायः

विषमवृत्ताध्याय आरभ्यते ।

मुखपादोऽष्टभिर्वर्णैः ।

परेऽस्मात्‌ मकरालयैः क्रमादृद्धाः ।

सततं यस्य विचित्रैः पादैः संपन्नसौँदर्यम्‌ । तदभिहितममलधीभिः पदचतुरूध्वाभिधं वृत्तम्‌ ॥ ९

प्रथमपादोऽ्टक्षरः । परे च द्वितीयतृतीयचतुर्थाः । अस्मात्प्रथमपादात्मकरालयैश्वतुर्भिश्वतुरिरक्षरैः क्रमादरद्धा वर्धिताः । क्रमादिति कोऽथः । द्वितीयो द्वादशाक्षरः । तृतीयो षोडशाक्षरः । चतुर्थो विंशत्यक्षर इति क्रमादि प्राता: । सततमनवरतं इति विविधैश्वतुर्विंशतिष्रकारप्रस्तारेण विचित्रैः पादैः प्रा्तसौदर्यं तदृतं आचार्यैः पदचतुरूर्ध्वं नामोक्तम्‌ । यथा ।

आक्रम्यमाकृष्य धनु-

यै त्वया निहिता रणांगणे शरैः ।

रिपवः सहसा गतासवः क्षितिपते श्रुतम्‌ ।

पदचतुरू्ध्व न चलन्ति तत्रैव निपतन्ति सशल्याः ॥

अत्र गणपादाभावात्‌ गुरुलघू नेष्यते । अत्र च प्रस्तार्यमाणं चतुर्विंशतिधा भवति । षोढशद्रादशअष्टौ षोडशविंशतिद्रादश अष्टौ इत्यादि । १

प्रथममुदितवुत्ते ।

विरचितविषमचरणभाजि ।

गुरुकयुगलनिधन इह कलित आड । विधृतरुचिरपदविततियतिरिह भवति पीडः ॥ २

प्रथममुदितवृत्ते पदचतुरूर्ध्वे विरचितान्‌ विषमान्‌ अष्टौदादशषोडशविंशत्यक्षरान्‌ पदान्‌ भजतीति तस्मिन्‌ विषमचरणभाजि इह छदसि आड कलितो युक्तः पीडो भवति । आपीड इत्यर्थः । क्व सति इत्याह । गुरुकयुगलनिधने गुरुद्यं निधनेऽवसाने यस्य तस्मिन्सति । कीदृशं इत्याह । विधृतरुचिराणां पादानां वितत्या यतिर्विरामो यस्य स


२ पाठे नांता ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/६४&oldid=371630" इत्यस्माद् प्रतिप्राप्तम्