पृष्ठम्:SukavihRdayAnandinI.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

61

नीता हरशैलसंध्यमेते शुद्धभद्रविराइ पयसे यशस्ते ॥ ४

असमे सजौ सगुरुयुक्तौ केतुमती समे भरनगाद्रः । ५

असमे विषमे पादे सगणजगणसगणा गुरुश्च सरमे द्वितीये चतुर्थे भरगणरगणनगणा द्रौ गुरू च तद्त्तं केतुमती नाम । यथा ।

भवता रणांगणगतेनः^“ प्रस्फुरितासिमात्रसचिवेन ।

विजितामराश्चगजयुक्ता केतुमती नरेन्द्र रिपुसेना ॥५

आख्यानिकी तौ जगुरू गमोजे जतावनोजे जगुरु गुरुश्चेत्‌ । ६

ओजे प्रथमे तृतीये पादे तगणौ दौ जगणो गुरु च अनोजे द्वितीये चतुर्थे जगणतगणौ जगणो द्रौ गुरू च तद्त्तं आख्यानिकी नाम । यथा ।

ये ये त्वया संजति शत्रुभूपा हता हताशेषविपक्षवर्ग ।

आख्यानिकी कीर्तिरवन्तिनाथ बभूव ते संचरितांतरिक्षे ॥ ६

जतौ जगौ गो विषमे समे स्यात्तौ ज्गौ गमेषा विपरीतपूर्वा । ७

यस्य प्रथमे तृतीये पादे जगणतगणजगणा द्वौ गुरू च समे पादे द्रौ तगणौ जगणो दौ गुरू च तदत्तं विपरीताख्यानिकी नाम । यथा ।

धुवं समागच्छति जीवितेश श्रुत्वादिकारुण्यपरं वचो मे ।

भवेन्न चेद्ैववशादिहान्या आख्यानिकी मे विपरीतपूर्वा ॥

आख्यानिकी वार्तीहारिकोच्यतेः"* । एतयोश्च पूर्वक्तोपजात्यंतर्मतत्वे विशेषसंजञार्धसमवृत्ताध्याये पाठः । ७

सयुगात्सलघू विषमे गुरुर्युजि नभौ च भरौ हरिणप्लुता । ८

यस्या विषमे पादे सगणत्रयं लघुगुरू च समे पादे नगणभगणौ भगणरगणौ च तदृतं हरिणप्लुता नाम । यथा ।

यदि शीघ्रगति्हैरिणप्लुतान्सुविषमांस्तनुते पथिकः पथि ।

जलदागमने प्रियया तदा भवति संगतिरर्धशरीरया ॥ ८


216 पाठे रणांगणेन गतेन । 217 पाठे विपरीताख्यानि । 218 पाठे आख्यानिमकीवार्तीहारिकोच्यते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/६१&oldid=371627" इत्यस्माद् प्रतिप्राप्तम्