पृष्ठम्:SukavihRdayAnandinI.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयुजि ननरला गुरुः समे न्जमपरवक्त्रमिदं ततो जरौ । ९ विषमे पादे नगणौ रगणौ लघुश्च गुरुश्च भवन्ति समे पादे नगणजगणौ जगणरगणौ तदत्तं अपरवक्त्र** नाम । यथा ।

जलदगलपिशगलोचनं मदनरिपोः शशिखण्डमण्डितम्‌ ।

अपहरतु“ भयानि दक्षिणं" तदपरवक्त्रभयंकरं सताम्‌ ॥

अस्य वैतालीयान्तर्गतत्वेऽपि विशेषसंजार्थ इहोपन्यासः । ९

अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा । १०

यस्य विषमे पादे नगणद्रयं रगणात्परो यगणः समे नगणजगणौ जगणरगणौ गुरुश्च तदृतं पुष्पिताग्रा नाम |

चलकिशलयवत्यशोकशाखा तव चरणाहतिमात्रपुष्पिताग्रा ती

शशिमुखि सखि मुञ्च मानमस्या मदनमहोत्सव एष याति शून्या ॥ इयमप्यौपच्छन्दसिकं विशेषसंजलाजलापकार्थमत्रोच्यते । १०

वदन्त्यपरवक्त्राख्यं वैतालीयं विपशितम्‌ । पुष्पिताग्राभिधं केचिदौपच्छंदसिकं तथा ॥ ११

62

स्यादयुग्मके रजौ रजौ समे तु जरौ जरौ गुरुर्यवात्परा मतीयम्‌~

। १२

यस्य विषमे पादे रगणजगणौ रगणजगणौ समे जगणरगणौ जगणरगणौ गुरुश्च तदृत्त

यवात्परामती्यंः भवतीत्यर्थः | यथा | मालवस्षितीश" मासमुद्रशाति यवानतारिभूयमेदिनी समग्रा |


२/* पाठे अपरवक्त्र नाम ।

”* पाठे अपरतु ।

2" पाठे दक्षणं |

“> पाठे चरणावतिमात्रपुष्पिताग्रा ।

2 टीकायां विवरणं नास्ति ।

२५ पाठे वतीयम्‌ ।

>> केषुचित्पुस्तकेषु वृत्तरत्नाकरे "यवमती' इति नाम । अयमेवार्थ अत्र भवेत्‌ । २२९ पाठे भवन्तीत्यर्थः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/६२&oldid=371628" इत्यस्माद् प्रतिप्राप्तम्